नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 31 to 40 of 110 verses
Verse 31
त्वचः समुत्तार्य दलानि रीत्या मोचात्वचः पञ्चषपाटनायाम् । सारैर्गृहीतैर्विधिरुत्पलौघात् अस्यामभूदीक्षणरूपशिल्पी ॥
Metre: उपजातिः

Verse 32
चकोरनेत्रैणदृगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः । सारः सुधोद्गारमयः प्रयत्नैः विधातुमेतन्नयने विधातुः ॥
Metre: उपजातिः

Verse 33
ऋणीकृता किं हरिणीभिरासीत् अस्याः सकाशान्नयनद्वयश्रीः । भूयोगुणेयं सकला बलाद्यत्ताभ्योऽनयाऽलभ्यत बिभ्यतीभ्यः ॥
Metre: उपजातिः

Verse 34
दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम् । न चेत्कृतः स्यादनयोः प्रयाणे विघ्नः श्रवः कूपनिपातभीत्या ॥
Metre: उपजातिः

Verse 35
केदारभाजा शिशिरप्रवेशात्पुण्याय मन्ये मृतमुत्पलिन्या । जाता यतस्तत्कुसुमेक्षणेयं यातश्च तत्कोरकदृक्चकोरः ॥
Metre: इन्द्रवज्रा

Verse 36
नासादसीया तिलपुष्पतूणं जगत्त्रयव्यस्तशरत्रयस्य । श्वासानिलामोदभरानुमेयां दधद्द्विबाणीं कुसुमायुधस्य ॥
Metre: उपजातिः

Verse 37
बन्धूकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्जिहाना । रागश्रिया शैशवयौवनीयां स्वमाह संध्यामधरोष्ठलेखा ॥
Metre: उपजातिः

Verse 38
अस्या मुखेन्दावधरः सुधाभूबिम्बस्य युक्तः प्रतिबिम्ब एषः । तस्याथ वा श्रीर्द्रुमभाजि देशे संभाव्यमानास्य तु विद्रुमे सा ॥
Metre: इन्द्रवज्रा

Verse 39
जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् । द्वयोर्विशेषावमाक्षमाणां नाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥
Metre: इन्द्रवज्रा

Verse 40
मध्योपकण्ठावधरोष्ठभागौ भातः किमप्युच्छृसितौ यदस्याः । तत्स्वप्नसंभोगवितीर्णदन्तदंशेन किं वा न मयापराद्धम् ॥
Metre: इन्द्रवज्रा