नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 21 to 30 of 110 verses
Verse 21
अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् । स्फुटस्फुटद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥
Metre: उपजातिः

Verse 22
अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगाताम् । तेनायमेभिः किमपूजि पुष्पैः अभर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥
Metre: उपजातिः

Verse 23
केशान्धकारादथ दृश्यभालस्थललार्धचन्द्रा स्फुटमष्टमीयम् । एनां यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधु ॥

Verse 24
पौष्पं धनुः किं मदनस्य दाहे श्यामीभवत्केसरशेषमासीत् । व्यधाद्द्विधेशस्तदपि क्रुधा किं भैमीभ्रुवौ येन विधिर्यधत्त ॥
Metre: उपजातिः

Verse 25
भ्रूम्यां प्रियाया भवता मनोभूचापेन चापे घनसारभावः । निजां यदप्लोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यतार्जि ॥
Metre: उपजातिः

Verse 26
स्मारं धनुर्यद्विधुनोज्झितास्या यास्येन भूतेन च लक्ष्मलेखा । एतद्भ्रुवौ जन्म तदाप युग्मं लीलाचलत्वोचितबालभावम् ॥
Metre: इन्द्रवज्रा

Verse 27
इषुत्रयेणैव जगत्त्रयस्य विनिर्जयात्पुष्पमयाशुगेन । शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य ॥
Metre: उपजातिः

Verse 28
सेयं मृदुः कौसुमचापयष्टिः स्मरस्य मुष्टिग्रहणार्हमध्या । तनोति नः श्रीमदपाङ्गमुक्तां मोहाय या दृष्टिशरौघवृष्टिम् ॥
Metre: उपजातिः

Verse 29
आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु । अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥
Metre: इन्द्रवज्रा

Verse 30
कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन । यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥
Metre: उपजातिः