नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 51 to 60 of 113 verses
Verse 51
अन्योन्यमन्यत्रवदीक्षमाणौ परस्परेणाध्युषितेऽपि देशे । आलिङ्गितालीकपरस्परान्तः तथ्यं मिथस्तौ परिषस्वजाते ॥
Metre: उपजातिः

Verse 52
स्पर्शे तमस्याधिगतापि भैमी मेने पुनर्भ्रान्तिमदर्शनेन । नृपः स पश्यन्नपि तामुदीतस्तम्भो न धर्तुं सहसा शशाक ॥
Metre: उपजातिः

Verse 53
स्पर्शातिहर्षादृतसत्यमत्या प्रवृत्य मिथ्याप्रतिलब्धबाधौ । पुनर्मिथस्तथ्यमपि स्पृशन्तौ न श्रद्दधाते पथि तौ विमुग्धौ ॥
Metre: उपजातिः

Verse 54
सर्वत्र संवाद्यमबाधमानौ रूपश्रियातिथ्यकरं परं तौ । न शेकतुः केलिरसाद्विरन्तु मलीकमालोक्य परस्परं तु ॥
Metre: उपजातिः

Verse 55
परस्परस्पर्शरसोर्मिसेकात्तयोः क्षणं चेतसि विप्रलम्भः । स्नेहातिदानादिव दीपिकार्चिः निमिष्य किंचिद्द्विगुणं दिदीपे ॥
Metre: उपजातिः

Verse 56
वेश्माप सा धैर्यवियोगयोगाद्बोधं च मोहं च मुहुर्दधाना । पुनः पुनस्तत्र पुरः स पश्यन्बभ्रामतां सुभ्रुवमुद्भ्रमेण ॥
Metre: उपजातिः

Verse 57
पद्भ्यां नृपः संचरमाण एष चिरं परिभ्रम्य कथंकथंचित् । विदर्भराजप्रभवाभिरामं प्रासादमभ्रंकषमाससाद ॥
Metre: उपजातिः

Verse 58
सखीशतानां सरसैर्विलासैः स्मरावरोधभ्रममावहन्तीम् । विलोकयामास सभां स भैम्याः तस्य प्रतोलीमणिवेदिकायाम् ॥
Metre: उपजातिः

Verse 59
कण्ठः किमस्याः पिकवेणुवीणाः तिस्रो जिताः सूचयति त्रिरेखः । इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ॥
Metre: उपजातिः

Verse 60
एतं नलं तं दमयन्ति ! पश्य त्यजार्तिमित्यालिकुलप्रबोधान् । श्रुत्वा स नारीकरवर्तिसारीमुखात्स्वमाशङ्कत यत्र दृष्टम् ॥
Metre: उपजातिः

Showing 51 to 60 of 113 verses