दहति कण्ठमयं खलु तेन किं गरुडवद्द्विजवासनयोज्झितः । प्रकृतिरस्य विधुंतुद ! दाहिका मयि निरागसि का वद विप्रता ॥
Metre: द्रुतविलम्बितम्
सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः । विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतिः ॥
Metre: द्रुतविलम्बितम्
स्मरमुखं हरनेत्रहुताशनाज्ज्वलदिदं चकृषे विधिना विधुः । बहुविधेन वियोगिवधैनसा शशमिषादथ कालिकयाङ्कितः ॥
Metre: द्रुतविलम्बितम्
इति विधोर्विविधोक्तिवगर्हणं व्यवहितस्य वृथेति विमृश्य सा । अतितरां दधती विरहज्वरं हृदयभाजमुपालभत स्मरम् ॥
Metre: द्रुतविलम्बितम्
हृदयमाश्रयसे यदि ममाकं ज्वलयसीत्थमनङ्ग ! तदेव किम् । स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि हताश ! हुताशवत् ॥
Metre: द्रुतविलम्बित
पुरभिदा गमितस्त्वमदृश्यतां त्रिनयनत्वपरिप्लुतिशङ्कया । स्मर ! निरैष्यत कस्यचनापि न त्वयि किमक्षिगते नयनैस्त्रिभिः ॥
Metre: द्रुतविलम्बितम्
सहचरोऽसि रतेरिति विश्रुतिः त्वयि वसत्यपि मे न रतिः कुतः । अथ न संप्रति संगतिरस्ति वामनुमृता न भवन्तमियं किल ॥
Metre: द्रुतविलम्बितम्
रतिवियुक्तमनात्मपरज्ञ ! किं स्वमिव मामपि तापितवानसि । कथमतापभृतस्तव संगमादितरथा हृदयं मम दह्यते ॥
Metre: द्रुतविलम्बितम्
अनुममार न मार ! कथं नु सा रतिरतिप्रथितापि पतिव्रता । इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्झितः ॥
Metre: द्रुतविलम्बितम्
सुगत एव विजित्य जितेन्द्रियः त्वदुरुकीर्तितनुं यदनाशयत् । तव तनूमवशिष्टवतीं ततः समिति भूतमयीमहरद्धरः ॥
Metre: द्रुतविलम्बितम्