नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 71 to 80 of 136 verses
Verse 71
महीमहेन्द्रः खलु नैषधेन्दुः तद्वोधनीयः कथमित्थमेव । प्रयोजनं सांशयिकं प्रतीदृक्पृथग्जनेनेव स मद्विधेन ॥
Metre: उपजातिः

Verse 72
पितुर्नियोगेन निजेच्छया वा युवानमन्यं यदि वा वृणीषे । त्वदर्थमर्थित्वकृतिप्रतीतिः कीदृङ्मयि स्यान्निषधेश्वरस्य ॥
Metre: उपजातिः

Verse 73
त्वपायि किं शङ्कितविक्रियेऽस्मिन्नधिक्रिये वा विषये निदातुम् । इतः पृथक्प्रार्थयसे तु यद्यत्कुर्वे तदुर्वीपतिपुत्रि ! सर्वम् ॥
Metre: उपजातिः

Verse 74
श्रवःप्रविष्टा इव तद्गिरस्ता विधूय वैमत्यधुतेन मूर्ध्ना । ऊचे ह्रियोऽपि श्लथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री ॥
Metre: उपजातिः

Verse 75
मदन्यदानं प्रति कल्पना या वेदस्त्वदीये हृदि तावदेषा । निशोऽपि सोमेतरकान्तशङ्कामोंकारमग्रेसरमस्य कुर्याः ॥
Metre: उपजातिः

Verse 76
सरोजिनीमानसरागवृत्तेः अनर्कसंपर्कमतर्कयित्वा । मदन्यपाणिग्रहशङ्कितेयम् अहो महीयस्तव साहसिक्यम् ॥
Metre: उपेन्द्रवज्रा

Verse 77
साधु त्वया तर्कितमेतदेव स्वेनानलं यत्किल संश्रयिष्ये । विनामुना स्वात्मनि तु प्रहर्तुं मृषागिरं त्वां नृपतौ न कर्तुम् ॥
Metre: उपजातिः

Verse 78
मद्विप्रलभ्यं पुनराह यस्त्वां तर्कः स किं तत्फलवाचि मूकः । अशक्यशङ्काव्यभिचारहेतुः वाणी न वेदा यदि सन्तु के तु ॥
Metre: उपजातिः

Verse 79
अनैषधायैव जुहोति तातः किं मां कृशानौ न शरीरशेषाम् । ईष्टे तनूजन्मतनोः स नूनं मत्प्राणनाथस्तु नलस्तथापि ॥
Metre: उपजातिः

Verse 80
तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधित्सुता ते । अहेलिनां किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण ॥
Metre: उपेन्द्रवज्रा

Showing 71 to 80 of 136 verses