नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 81 to 90 of 123 verses
Verse 81
फलमलभ्यत यत्कुसुमैस्त्वया विषमनेत्रमनङ्ग ! विगृह्णता । अहदनीतिरवाप्तभया ततो न कुसुमैरपि विग्रहमिच्छति ॥
Metre: द्रुतविलम्बित

Verse 82
अपि धयन्नितरामरवत्सुधां त्रिनयनात्कथमापिथ तां दशाम् । भण रतेरधरस्य रसादरात् अमृतमाप्तघृणः खलु नापिबः ॥
Metre: द्रुतविलम्बितम्

Verse 83
भुवनमोहनजेन किमेनसा तव बभूव परेत ! पिशाचता । यदधुना विरहाधमलीमसाम् अभिभवन्भ्रमसि स्मर ! मद्विधाम् ॥
Metre: द्रुतविलम्बितम्

Verse 84
बत ददासि न मृत्युमपि स्मर ! स्खलति तेऽकृपया न धनुः करात् । अथ मृतोऽसि मृतेन च मुच्यते न खलु मुष्टिरुरीकृतबन्धनः ॥
Metre: द्रुतविलम्बित

Verse 85
दृगुपहत्यपमृत्युविरूपताः शमयतेऽपरनिर्जरसेविता । अतिशयान्ध्यवपुःक्षतिपाण्डुताः स्मर ! भवन्ति भवन्तमुपासितुः ॥
Metre: द्रुतविलम्बित

Verse 86
स्मर ! नृशंसतमस्त्वमतो विधिः सुमनसः कृतवान्भवदायुधम् । यदि धनुर्दृढमाशुगमायसं तव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥
Metre: द्रुतविलम्बितम्

Verse 87
स्मररिपोरिव रोपशिखी पुरां दहतु ते जगतामपि मा त्रयम् । इति विधिस्त्वदिषून्कुसुमानि किं मधुभिरन्तरसिञ्चदनिर्वृतः ॥
Metre: द्रुतविलम्बितम्

Verse 88
विधिरनंशममेद्यमवेक्ष्य ते जनमनः खलु लक्षमकल्पयत् । अपि स वज्रमदास्यत चेत्तदा त्वदिषुभिर्वदलिष्यदसावपि ॥
Metre: द्रुतविलम्बितम्

Verse 89
अपि विधिः कुसुमानि तवाशुगान्स्मर ! विधाय न निर्वृतिमाप्तवान् । अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ॥
Metre: द्रुतविलम्बित

Verse 90
उपहरन्ति न कस्य सुपर्वणः सुमनसः कति पञ्च सुरद्रुमाः । तव तु हीनतया पृथगेकिकां धिगियतापि न तेऽङ्ग ! विगर्हणा ॥
Metre: द्रुतविलम्बितम्

Showing 81 to 90 of 123 verses