कुसुममप्यतिदुर्णयकारि ते किमु वितीर्य धनुर्विधिरग्रहीत् । किमकृतैष तवैकतदास्पदे द्वयमभूदधुना हि नलभ्रुवौ ॥
Metre: द्रुतविलम्बितम्
षडृतवः कृपया स्वकमेककं कुसुममक्रमनन्दितनन्दनाः । ददति षड्भवते कुरुते भवान्धनुरिवैकमिषूनिवपञ्च तैः ॥
Metre: द्रुतविलम्बित
यदतनुस्त्वमिदं जगते हितं क्व स मुनिस्तव यः सहते हतीः । विशिखमाश्रवणं परिपूर्य चेद् अविचलद्भुतमुज्झितुमीशिषे ॥
Metre: द्रुतविलम्बित
सह तया स्मर ! भस्म झटित्यभूः पशुपतिं प्रति यामिषुमग्रहीः । ध्रुवमभूदधुना वितनोः शरः तव पिकस्वर एव स पञ्चमः ॥
Metre: द्रुतविलम्बितम्
स्मर ! स मद्दुरितैरफलीकृतो भगवतोऽपि भवद्दहनश्रमः । सुरहिताय हुतात्मतनुः पुनः ननु जनुर्दिवि तत्क्षणमापिथ ॥
Metre: द्रुतविलम्बितम्
विरहिणो विमुखस्य विधूदये शमनदिक्पवनः स न दक्षिणः । सुमनसो नमयन्नटनौ धनुः तव तु बाहुरसौ यदि दक्षिणः ॥
Metre: द्रुतविलम्बितम्
किमु भवन्तमुमापतिरेककं मदमुदान्धमयोगिजनान्तकम् । यदजयत्तत एव न गीयते स भगवान्मदनान्धकमृत्युजित् ॥
Metre: द्रुतविलम्बितम्
त्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे । स्वमदहो दहनाज्ज्वलतात्मना ज्वलयितुं परिरभ्य जगन्ति यः ॥
Metre: द्रुतविलम्बितम्
त्वमुचितं नयनार्चिषि शंभुना भुवनशान्तिकहोमहविः कृतः । तव वयस्यमपास्य मधुं मधुं हतवता हरिणा बत किं कृतम् ॥
Metre: द्रुतविलम्बितम्
इति कियद्वचसैव भृशं प्रियाधरपिपासु तदाननमाशु तत् । अजनि पांशुमप्रियवाग्ज्वलन्मदनशोषणबाणहतेरिव ॥
Metre: आर्यागीति