नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 111 to 120 of 136 verses
Verse 111
स्मारं ज्वरं घोरमपत्रपिष्णोः सिद्धागदङ्कारचये चिकित्सौ । निदानमौनादविशद्विशाला साङ्क्रामिकी तस्य रुजेव लज्जा ॥
Metre: उपजातिः

Verse 112
बिभेति रुष्टासि किलेत्यकस्मात्स त्वां किलापेति हसत्यकाण्डे । यान्तीमिव त्वामनु यात्यहेतोः उक्तस्त्वयेव प्रतिवक्ति मोघम् ॥
Metre: उपजातिः

Verse 113
भवद्वियोगाच्छिदुरार्तिधारायमस्वसुर्मज्जति निःशरण्यः । मूर्च्छामयद्वीपमहान्ध्यपङ्के हा हा महीभृद्भटकुञ्जरोऽयम् ॥
Metre: उपजातिः

Verse 114
सव्यापसव्यत्यजनाद्द्विरुक्तैः पञ्चेषुबाणैः पृथगर्जितासु । दशासु शेषा खलु तद्दशा या तया नभः पुष्प्यतु कोरकेण ॥
Metre: उपजातिः

Verse 115
त्वयि स्मराधेः सततास्मितेन प्रस्थापितो भूमिभृतास्मि तेन । आगत्य भूतः सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः ॥
Metre: उपजातिः

Verse 116
धन्यासि वैदर्भि ! गुणैरुदारैः यया समाकृष्यत नैषधोऽपि । इतः स्तुतिः कः खलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति ॥
Metre: उपजातिः

Verse 117
नलेन भायाः शशिना निशेव त्वया स भायान्निशया शशीव । पुनः पुनस्तद्युगयुग्विधाता योग्यामुपास्ते नु युवां युयुक्षुः ॥
Metre: उपजातिः

Verse 118
स्तनद्वये तन्वि ! परं तवैव पृथो यदि प्राप्स्यति नैषधस्य । अनल्पवैदग्ध्यविवर्धिनीनां पत्रावलीनां वलना समाप्तिम् ॥
Metre: उपजातिः

Verse 119
एकः सुधांशुर्न कथंचन स्यात्तृप्तिक्षमस्त्वन्नयनद्वयस्य । त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥
Metre: उपजातिः

Verse 120
अहो तपः कल्पतरुर्नलीयः त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः । त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥
Metre: उपजातिः