नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 101 to 110 of 136 verses
Verse 101
त्वद्वद्धबुद्धेर्बहिरिन्द्रियाणां तस्योपवासव्रतिनां तपोभिः । त्वामद्य लब्ध्वामृततृप्तिभाजां स्वदेवभूयं चरितार्थमस्तु ॥
Metre: उपजातिः

Verse 102
तुल्यावयोर्मूर्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि । इत्यभ्यसूयन्निव देहतापं तस्यातनुस्त्वद्विरहाद्विधत्ते ॥
Metre: इन्द्रवज्रा

Verse 103
लिपिं दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिर्निमेषः । चक्षुर्झरैरर्पितमात्मचक्षूरागं स धत्ते रचितं त्वया नु ॥
Metre: उपजातिः

Verse 104
पातुर्दृशालेख्यनयीं नृपस्य त्वामादरादस्तनिमीलयास्ते । ममेदमित्यश्रुणि नेत्रवृत्तेः प्रीतेर्निमेषच्छिदया विवादः ॥
Metre: उपजातिः

Verse 105
त्वं हृद्गता भैमि ! बहिर्गतापि प्राणायिता नासिकयास्यगत्या । न चित्रमाक्रामति तत्र चित्रम् एतन्मनो यद्भवदेकवृत्ति ॥
Metre: उपजातिः

Verse 106
अजस्रमारोहसि दूरदीर्घो संकल्पसोपानततिं तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्यद्यानात्तव त्वन्मयतां तदाप्य ॥
Metre: उपजातिः

Verse 107
हृत्तस्य यन्मन्त्रयते रहस्त्वां तद्व्यक्तमामन्त्रयते मुखं यत् । तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥
Metre: इन्द्रवज्रा

Verse 108
स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती । आलिङ्ग्य या चुम्बति लोचने सा निद्राधुना न त्वदृतेऽङ्गना वा ॥
Metre: उपजातिः

Verse 109
स्मरेण निस्तक्ष्य वृथैव बाणैः लावण्यशेषां कृशतामनायि । अनङ्गतामप्ययमाप्यमानः स्पर्धां न सार्धे विजहाति तेन ॥
Metre: उपजातिः

Verse 110
त्वत्प्रापकात्त्रस्यति नैनसोऽपि त्वय्येष दास्येऽपि न लज्जते यत् । स्मरेण बाणैरतितक्ष्य तीक्ष्णैः लूनः स्वभावोऽपि कियान्किमस्य ॥
Metre: उपजातिः