स्वारसातलभवाहवशङ्की निर्वृणोमि न वसन्वसुमत्याम् । द्यां गतस्य हृदि मे दुरुदर्कः क्ष्मातलद्वयभटाजिवितर्कः ॥
Metre: स्वागता
वीक्षितस्त्वमसि मामथ गन्तुं तन्मनुष्यजगतेऽनुमनुष्व । किं भुवः परिवृढा न विवोढुं तत्र तामुपगता विवदन्ते ॥
Metre: स्वागता
इत्युदीर्य स ययौ मुनिरुर्वो स्वर्पतिं प्रतिनिवर्त्य बलेन । वारितोऽप्यनुजगाम सयत्नं तं कियन्त्यपि पदान्यपराणि ॥
Metre: स्वागता
पाणये बलरिपोरथ भैमीशीतकोमलकरग्रहमर्हम् । भेषजं चिरचिताशनिवासव्यापदामुपदिदेश रतीशः ॥
Metre: स्वागता
नाकलोकभिषजोः सुषमा या पुष्पचापमपि चुम्बति सैव । वेद्मि तादृगभिषज्यदसौ तद्द्वारसंक्रमितवैद्यकविद्यः ॥
Metre: स्वागता
मानुषीमनुसरत्यथ पत्यौ खर्वभावमवलम्ब्य मघोनी । खण्डितं निजमसूचयदुच्चैः मानमाननसरोरुहनत्या ॥
Metre: स्वागता
यो मघोनि दिवमुच्चरमाणे रम्भया मलिनिमालमलम्भि । वर्ण एव स खलूज्ज्वलमस्याः शान्तमान्तरमभाषत भङ्ग्या ॥
Metre: स्वागता
जीवितेन कृतमप्सरसां तत्प्राणमुक्तिरिह युक्तिमती नः । इत्यनक्षरमवाचि धृताच्या दीर्घनिःश्वसितनिर्गमितेन ॥
Metre: स्वागता
साधु नः पतनमेवमितः स्यात् इत्यभण्यत तिलोत्तमयापि । चामरस्य पतनेन कराब्जात्तद्विलोलनचलद्भुजनालात् ॥
Metre: स्वागता
उर्वशी गुणवशीकृतविश्वा तत्क्षणस्तिमितभावनिभेन । शक्रसौहृदसमापनसीम्नि स्तम्भकार्यमपुषद्वपुषैव ॥
Metre: स्वागता