बिभेमि चिन्तामपि कर्तुमीदृशीं चिराय चित्तार्पितनैषधेश्वरा । मृणालतन्तुच्छिदुरा सतीस्थितिः लवादपि त्रुट्यति चापलात्किल ॥
Metre: वंशस्थम्
ममाशयः स्वप्नदशाज्ञयापि वा नलं विलङ्घ्येतरमस्पृशद्यदि । कुतः पुनस्तत्र समस्तसाक्षिणी निजैव बुद्धिर्विबुधैर्न पृच्छ्यते ॥
Metre: वंशस्थम्
अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् । स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥
Metre: वंशस्थम्
अनुग्रहः केवलमेष मादृशे मनुष्यजन्मन्यपि यन्मनो जने । स चेद्विधेयस्तदमी तमेव मे प्रसद्य भिक्षां वितरीतुमीशताम् ॥
Metre: वंशस्थम्
अपि द्रढीयः शृणु मत्प्रतिश्रुतं स पीडयेत्पाणिमिमं न चेन्नृपः । हुताशनोद्बन्धनवारिकारितां निजायुषस्तत्करवै स्ववैरिताम् ॥
Metre: वंशस्थम्
निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा । घनाम्बुना राजपथे हि पिच्छिले क्वचिद्बुधैरप्यपथेन गम्यते ॥
Metre: वंशस्थम्
स्त्रिया मया वाग्मिषु तेषु शक्यते न जातु सम्यग्वितरीतुमुत्तरम् । तदत्र मद्भाषितसूत्रपद्धतौ प्रबन्धृतास्तु प्रतिबन्धृता न ते ॥
Metre: वंशस्थम्
निरस्य दूतः स्म तथा विसर्जितः प्रियोक्तिरप्याह कदुष्णमक्षरम् । कुतूहलेनेव मुहुः कुहूरवं विडम्ब्य डिम्भेन पिकः प्रकोपितः ॥
Metre: वंशस्थम्
अहो मनस्त्वामनु तेऽपि तन्वते त्वमप्यमीभ्यो विमुखीति कौतुकम् । क्व वा निधिर्निर्धनमेति किंच तं स वाक्कवाटं घटयन्निरस्यते ॥
Metre: वंशस्थम्
सहाखिलस्त्रीषु वहेऽवहेलया महेन्द्ररागाद्गुरुमादरं त्वयि । त्वमीदृशि श्रेयसि संमुखेऽपि तं पराङ्मुखी चन्द्रमुखि ! न्यवीवृतः ॥
Metre: वंशस्थम्