नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 31 to 40 of 138 verses
Verse 31
पुरे पथि द्वारगृहाणि तत्र चित्रीकृतान्युत्सववाञ्छयेव । नभोऽपि किर्मीरमकारि तेषां महीभुजामाभरणप्रभाभिः ॥
Metre: उपजातिः

Verse 32
विलासवैदग्ध्यविभूषणश्रीस्तेषां यथासीत्परिचारकेऽपि । अज्ञासिषुः स्त्रीशिशुबालिशास्तं यथागतं नायकमेव कंचित् ॥
Metre: उपजातिः

Verse 33
न स्वेदिनश्चामरमारुतैर्न निमेषनेत्राः प्रतिवस्तुचित्रैः । म्लानस्रजो नातपवारणेन देवा नृदेवा बिभिदुर्न तत्र ॥
Metre: उपजातिः

Verse 34
अन्योन्यभाषानवबोधभीतेः संस्कृत्रिमाभिर्व्यवहारवत्सु । दिग्भ्यः समेतेषु नृपेषु तेषु सौवर्गवर्गो न जनैरचिह्नि ॥
Metre: इन्द्रवज्रा

Verse 35
ते तत्र भैम्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लेखितानि । निरीक्ष्य निन्युर्दिवसं निशां च तत्स्वप्नसंभोगकलाविलासैः ॥
Metre: उपजातिः

Verse 36
सा विभ्रमं स्वप्नगतापि तस्यां निशि स्वलाभस्य ददे यदेभ्यः । तदर्थिनां भूमिभुजां वदान्या सती सती पूरयति स्म कामम् ॥
Metre: उपजातिः

Verse 37
वैदर्भदूतानुनयोपहूतैः शृङ्गारभङ्गीरनुभावयद्भिः । स्वयंवरस्थानजनाश्रयस्तैर्दिने परत्रालमकारि वीरैः ॥
Metre: उपजातिः

Verse 38
भूषाभिरुच्चैरपि संस्कृते यं वीक्ष्याकृत प्राकृतबुद्धिमेव । प्रसूनबाणे विबुधाधिनाथस्तेनाथ साऽशोभि सभा नलेन ॥
Metre: उपजातिः

Verse 39
धृताङ्गरागे कलितद्युशोभां तस्मिन्सभां चुम्बति राजचन्द्रे । गता बताक्ष्णोर्विषयं विहाय क्व क्षात्त्रनक्षत्त्रकुलस्य कान्तिः ॥
Metre: उपजातिः

Verse 40
द्राग्दृष्टयः क्षोणिभुजाममुष्मीन्नाश्चर्यपर्युत्सुकिता निपेतुः । अनन्तरं दन्तुरितभ्रुवां तु नितान्तमीर्ष्याकलुषा दृगन्ताः ॥
Metre: उपजातिः