नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 51 to 60 of 138 verses
Verse 51
गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्त्वल्ललिताभिनेता । मुदा तदाऽवैक्षत केशवस्तं स्वयंवराडम्बरमम्बरस्थः ॥
Metre: उपजातिः

Verse 52
अष्टौ तदाष्टासु हरित्सु दृष्टीः सदो दिदृक्षुर्निदिदेश देवः । लैङ्गीमदृष्ट्वापि शिरःश्रियं यो दृष्टौ मृषावादितकेतकीकः ॥
Metre: उपजातिः

Verse 53
एकेन पर्यक्षिपदात्मनाद्रिं चक्षुर्मुरारेरभवत्परेण । तैर्द्वादशात्मा दशभिस्तु शेषैर्दिशो दशालोकत लोकपूर्णाः ॥
Metre: उपजातिः

Verse 54
प्रदक्षिणं दैवतहर्म्यमद्रिं सदैव कुर्वन्नपि शर्वरीशः । द्रष्टा महेन्द्रानुजदृष्टिमूर्त्या न प्राप तद्दर्शनविघ्नतापम् ॥
Metre: उपजातिः

Verse 55
आलोकमाना वरलोकलक्ष्मीं तात्कालिकीमप्सरसो रसोत्काः । जनाम्बुधौ यत्र निजाननानि वितेनुरम्भोरुहकाननानि ॥
Metre: उपजातिः

Verse 56
न यक्षलक्षैः किमलक्षि नो वा सिद्धैः किमध्यासि समाप्तशोभा । सा किंनरैः किं न रसादसेवि नादर्शि हर्षेण महर्षिभिर्वा ॥
Metre: उपजातिः

Verse 57
वाल्मीकिरश्लाघत तामनेकशाखत्रयीभूरुहराजिभाजा । क्लेशं विना कण्ठपथेन यस्य दैवी दिवः प्राग्भुवमागमद्वाक् ॥
Metre: इन्द्रवज्रा

Verse 58
प्राशंसि संसद्गुरुणापि चार्वी चार्वाकतासर्वविदूषकेण । आस्थानपट्टं रसनां यदीयां जानामि वाचामधिदेवतायाः ॥
Metre: इन्द्रवज्रा

Verse 59
नाकेऽपि दीव्यत्तमदिव्यवाचि वचःस्रगाचार्यकवित्कविर्यः । दैतेयनीतेः पथि सार्थवाहः काव्यः स काव्येन सभामभाणीत् ॥
Metre: उपजातिः

Verse 60
अमेलयद्भीमनृपः परं न नाकर्षदेतान्दमनस्वसैव । इदं विधातापि विचिन्त्य यूनः स्वशिल्पसर्वस्वमदर्शयन्नः ॥
Metre: उपजातिः

Showing 51 to 60 of 138 verses