नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 61 to 70 of 138 verses
Verse 61
एकाकिभावेन पुरा पुरारिः यः पञ्चतां पञ्चशरं निनाय । तद्भीसमाधानममुष्य कायनिकायलीलाः किममी युवानः ॥
Metre: उपजातिः

Verse 62
पूर्णेन्दुबिम्बाननुमासभिन्नानस्थापयत्क्वापि निधाय वेधाः । तैरेव शिल्पी निरमादमीषां मुखानि लावण्यमयानि मन्ये ॥
Metre: उपजातिः

Verse 63
मुधार्पितं मूर्धसु रत्नमेभिर्यन्नाम तानि स्वयमेत एव । स्वतःप्रकाशे परमात्मबोधे बोधान्तरं न स्फुरणाऋथमर्थ्यम् ॥
Metre: उपेन्द्रवज्रा

Verse 64
प्रवेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् । न शक्ष्यतो लक्षयितुं विमिश्रं दस्रौ सहस्रैरपि वत्सराणाम् ॥
Metre: उपजातिः

Verse 65
स्थितैरियद्भिर्युवभिर्विदग्धैर्दग्धेऽपि कामे जगतः क्षतिः का । एकाम्बुबिन्दुव्ययमम्बुराशेः पूर्णस्य कः शंसति शोषदोषम् ॥
Metre: उपजातिः

Verse 66
इति स्तुवन्हुंकृतिवर्गणाभिर्गन्धर्ववर्गेण स गायतैव । ओंकारभूम्ना पठतैव वेदान्महर्षिवृन्देन तथाऽन्वमानि ॥
Metre: उपजातिः

Verse 67
न्यवीविशत्तानथ राजसिंहान्सिंहासनौघेषु विदर्भराजः । शृङ्गेषु यत्र त्रिदशैरिवैभिः अशोभि कार्तस्वरभूधरस्य ॥
Metre: उपजातिः

Verse 68
विचिन्त्य नानाभुवनागतांस्तानमर्त्यसंकीर्त्यचरित्रगोत्रान् । कथ्याः कथंकारममी सुतायाम् इति व्यषादि क्षितिपेन तेन ॥
Metre: उपजातिः

Verse 69
श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः । तदाकुलोऽसौ कुलदैवतस्य स्मृतिं ततान क्षणमेकतानः ॥
Metre: उपजातिः

Verse 70
तच्चिन्तनानन्तरमेव देवः सरस्वतीं सस्मितमाह स स्म । स्वयंवरे राजकगोत्रवृत्तवत्त्रीमिह त्वां करवाणि वाणि ॥
Metre: उपजातिः

Showing 61 to 70 of 138 verses