नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 61 to 70 of 130 verses
Verse 61
आरोहणाय तव सज्ज इवास्ति तत्र सोपानशोभिवपुरश्मवलिच्छटाभिः । भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धिक्षुब्धाचलः कनककेतकगोत्रगात्रि ॥
Metre: वसन्ततिलका

Verse 62
मन्था नगः स भुजगप्रभुवेष्टघृष्टिलेखावलद्धवलनिर्झरवारिधारः । त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेषशेषाङ्गवेष्टिततनुभ्रममातनोतु ॥
Metre: वसन्ततिलका

Verse 63
एतेन ते स्तनयुगेन सुरेभकुम्भौ पाणिद्वयेन दिविषह्रुमपल्लवानि । आस्येन स स्मरतु नीरधिमन्थनोत्थं स्वच्छन्दमिन्दुमपि सुन्दरि मन्दराद्रिः ॥
Metre: वसन्ततिलका

Verse 64
वेदैर्वचोभिरखिलैः कृतकीर्तिरत्ने हेतुं विनैव धृतनित्यपरार्थयत्ने । मीमांसयेव भगवत्यमृतांशुमौलौ तस्मिन्महीभुजि तयानुमतिर्न भेजे ॥
Metre: वसन्ततिलका

Verse 65
तस्मादिमां नरपतेरपनीय तन्वीं राजन्यमन्यमथ जन्यजनः स निन्ये । स्त्रीभावधावितपदामविमृश्य याच्ञाम् अर्थी निवर्त्य विधनादिव वित्तवित्तम् ॥
Metre: वसन्ततिलका

Verse 66
देवी पवित्रितचतुर्भुजवामभागा वागालपत्पुनरिमां गरिमाभिरामाम् । अस्यारिनिष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥
Metre: वसन्ततिलका

Verse 67
द्वीपस्य शाल्मल इति प्रथितस्य नाथः पाथोधिना वलयितस्य सुराम्बुनायम् । अस्मिन्वपुष्मति न विस्मयसे गुणाब्धौ रक्ता तिलप्रसवनासिकि नासि किं वा ॥
Metre: वसन्ततिलका

Verse 68
विप्रे धयत्युदधिमेकतमं त्रसत्सु यस्तेषु पञ्चसु बिभाय न सीधुसिन्धुः । तस्मिन्ननेन च निजालिजनेन च त्वं सार्धं विधेहि मधुरा मधुपानकेलीः ॥
Metre: वसन्ततिलका

Verse 69
द्रोणः स तत्र वितरिष्यति भाग्यलभ्यसौभाग्यकाऋमणमयीमुपदां गिरिस्ते । तद्द्वीपदीप इव दीप्तिभिरौषधीनां चूडामिलज्जलदकज्जलदर्शनीयः ॥
Metre: वसन्ततिलका

Verse 70
तद्वीपलक्ष्मपृथुशाल्मलितूलजालैः क्षोणीतले मृदुनि मारुतचारुकीर्णैः । लीलाविहारसमये चरणार्पणानि योग्यानि ते सरससारसकोशमृद्वि ॥
Metre: वसन्ततिलका

Showing 61 to 70 of 130 verses