धराधिराजं निजगाद भारती तदुन्मुखेषद्वलिताङ्गसूचितम् । दमस्वसारं प्रति सारवत्तरं कुलेन शीलेन च राजसूचितम् ॥
Metre: वंशस्थम्
कुतः कृतैवं वरलोकमागतं प्रति प्रतिज्ञाऽनवलोकनाय ते । अपीयमेनं मिथिलापुरंदरं निपीय दृष्टिः शिथिलास्तु ते वरम् ॥
Metre: वंशस्थम्
न पाहि पाहीति यदब्रवीदमुं ममौष्ठ तेनैवमभूदिति क्रुधा । रणक्षितावस्य विरोधिमूर्धभिर्विदश्य दन्तैर्निजमोष्ठमास्यते ॥
Metre: वंशस्थम्
भुजेऽपसर्पत्यपि दक्षिणे गुणं सहेषुणादाय पुरःप्रसर्पिणे । धनुः परीरम्भमिवास्य संमदान्महाहवे वामबाहवे ॥
Metre: वंशस्थम्
अस्योर्वीरमणस्य पाऋवणविधुद्वैराज्यसज्जं यशः सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् । तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥
Metre: शार्दूलविक्रीडितम्
निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्तिकूटावटस्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः । उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरंगक्षुरक्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षोणीजबीजव्रजम् ॥
Metre: शार्दूलविक्रीडितम्
अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः । आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचकश्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥
Metre: शार्दूलविक्रीडितम्
सृजामि किं विघ्नमिदंनृपस्तुतावितीङ्गितैः पृच्छति तां सखीजने । स्मिताय वक्त्रं यदवक्रयद्वधूस्तदेव वैमुख्यमलक्षि तन्नृपे ॥
Metre: वंशस्थम्
दृशास्य निर्दिश्य नरेश्वरान्तरं मधुस्वरा वक्तुमधीश्वरा गिराम् । अनूपयामास विदर्भजाश्रुती निजास्यचन्द्रस्य सुधाभिरुक्तिभिः ॥
Metre: वंशस्थम्
स कामरूपाधिप एष हा त्वया न कामरूपाधिक ईक्ष्यतेऽपि यः । त्वमस्य सा योग्यतमासि वल्लभा सुदुर्लभा यत्प्रतिमल्लभा परा ॥
Metre: वंशस्थम्