ब्रवीति दासीह किमप्यसंगतं ततोऽपि नीचेयमति प्रगल्भते । अहो सभा साधुरितीरिणः क्रुधा न्यषेधदेतत्क्षितिपानुगाञ्जनः ॥
Metre: वंशस्थम्
अथान्यमुद्दिश्य नृपं कृपामयी मुखेन तद्दिङ्मुखसंमुखेन सा । दमस्वसारं वदति स्म देवता गिरामिलाभूवदतिस्मरश्रियम् ॥
Metre: वंशस्थम्
विलोचनेन्दीवरवासवासितैः सितैरपाङ्गाध्वगचन्द्रिकाञ्चलैः । त्रपामपाकृत्य निभान्निभालय क्षितिक्षितिं मालयमालयं रुचः ॥
Metre: वंशस्थम्
इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं मुधाविशत् । न वेत्ति यत्त्रातुमितः कृतस्मयो न दुर्गया शैलभुवापि शक्यते ॥
Metre: वंशस्थम्
अनेन राज्ञार्थिषु दुर्भगीकृतो भवन्घनध्वानजरत्नमेदुरः । तथा विदूराद्रिरदूरतां गमी यथा स गामी तव केलिशैलताम् ॥
Metre: वंशस्थम्
नम्रप्रत्यर्थिपृथ्वीपतिमुखकमलम्लानताभृङ्गजातच्छायान्तःपातचन्द्रायितचरणनखश्रेणिरैणेयनेत्रे । दृप्तारिप्राणवातामृतरसलहरीभूरिपानेन पीनं भूलोकस्यैष भर्ता भुजभुजगयुगं सांयुगीनं बिभर्ति ॥
Metre: स्रग्धरा
अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेषस्याहेर्भूयः फणसमुचितः काययष्टीनिकायः । दुग्धाम्भोधेर्मुनिचुलकनत्रासनाशाभ्युपायः कायव्यूहः क्व जगति न जागर्त्यदःकीर्तिपूरः ॥
Metre: मन्दाक्रान्ता
राज्ञामस्य शतेन किं कलयतो हेतिं शतघ्नीं कृतं लक्षैर्लक्षभिदो दशैव जयतः पद्मानि पद्मैरलम् । कर्तुं सर्वपरिच्छिदः किमपि नो शक्यं परार्धेन वा तत्संख्यापगमं विनास्ति न गतिः काचिद्बतैतद्द्विषाम् ॥
Metre: शार्दूलविक्रीडितम्
वयस्ययाकूतविदा दमस्वसुः स्मितं वितत्याभिदधेऽथ भारती । इतः परेषामपि पश्य याचतां भवन्मुखेन स्वनिवेदनत्वराम् ॥
Metre: वंशस्थम्
कृतात्र देवी वचनाधिकारिणी त्वमुत्तरंदासि ददासि कासती । इतीरिणस्तन्नृपपारिपार्श्विकान्स्वभर्तुरेव भ्रुकुटिर्न्यवर्तयत् ॥
Metre: वंशस्थम्