नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 41 to 50 of 113 verses
Verse 41
स्मितश्रिया सृक्कणि लीयमानयावितीर्णया तद्गुणशर्मणेव सा । उपाहसत्कीर्त्यमहत्त्वमेव तं गिरां हि पारे निषधेन्द्रवैभवम् ॥
Metre: वंशस्थम्

Verse 42
निजाक्षिलक्ष्मीहसितैणशावकामसावभाणीदपरं परंतपम् । पुरैव तद्दिग्वलनश्रियां भुवा भ्रुवा विनिर्दिश्य सभासभाजितम् ॥
Metre: वंशस्थम्

Verse 43
कृपा नृपाणामुपरि क्वचिन्न ते नतेन हा हा शिरसा रसादृशाम् । भवन्तु तावत्तव लोचनाञ्चला निपेयनेपालनृपालपालयः ॥
Metre: वंशस्थम्

Verse 44
ऋजुत्वमौनश्रुतिपारगामिता यदीयमेतत्परमेव हिंसितुम् । अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः ॥
Metre: वंशस्थम्

Verse 45
शरः रिपूनवाप्यापि गतोऽवकीर्णितामयं न यावज्जनरञ्जनव्रती । भृशं विरक्तानपि रक्तवत्तरान्निकृत्त्य यत्तानसृजासृजद्युधि ॥

Verse 46
पतत्येतत्तेजोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्गीकृततमपतङ्गापदुदयः । यशोऽमुष्येवोपार्जयितुमसमर्थेन विधिना कथंचित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥
Metre: शिखरिणी

Verse 47
यावत्पौलस्त्यवास्तूभवदुभयहरिल्लोमलेखोत्तरीये सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः । यावत्प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रावद्री संध्यापताकारुचिरचितशिखाशोणशोभावुभौ च ॥
Metre: स्रग्धरा

Verse 48
युद्ध्वा चाभिमुखं रणस्य चरणस्यैवादसीयस्य वा बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः । छिन्नं वावनतीभवन्निजभियः खिन्नं भरेणाथ वा राज्ञानेन हठाद्विलोठितमभूद्भूमावरीणां शिरः ॥
Metre: शार्दूलविक्रीडितम्

Verse 49
न तूणादुद्धारे न गुणघटने नाश्रुतिशिखं समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि । नृणां पश्यत्यस्य क्वचन विशिखान्किं तु पतितद्विषद्वक्षःश्वभ्रैरनुमितिरसून्गोचरयति ॥
Metre: शिखरिणी

Verse 50
दमस्वसुश्चित्तमवेत्य हासिका जगाद देवीं कियदस्य वक्ष्यसि । भण प्रभूते जगति स्थिते गुणैरिहाप्यते संकटवासयातना ॥
Metre: वंशस्थम्

Showing 41 to 50 of 113 verses