ततस्तदुर्वीन्द्रगुणाद्भुतादिव स्ववक्त्रपद्मेऽङ्गुलिनालदायिनी । विधीयतामाननमुद्रणेति सा जगाद वैदग्ध्यमयेङ्गितैव ताम् ॥
Metre: वंशस्थम्
अनन्तरं तामवदन्नृपान्तरं तदध्वदृक्तारतरङ्गरङ्गणा । तृणीभवत्पुष्पशरं सरस्वती स्वतीव्रतेजःपरिभूतभूतलम् ॥
Metre: वंशस्थम्
तदेव किं न क्रियते नु का क्षतिर्यदेष तद्दूतमुखेन काङ्क्षति । प्रसीद काञ्चीमयमाच्छिनत्तु ते प्रसह्य काञ्चीपुरभूपुरंदरः ॥
Metre: वंशस्थम्
मयि स्थितिर्नम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलङ्घ्यते । इतीव चापं दधदाशुगं क्षिपन्नयं नयं सम्यगुपादिशद्द्विषाम् ॥
Metre: वंशस्थम्
अदःसमित्संमुखवीरयौवतत्रुटद्भुजाकम्बुमृणालहारिणी । द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य खेलति ॥
Metre: वंशस्थम्
सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावध्रिश्यामिके व्योमान्तस्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे धावति । जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियेवास्तं यान्ति समस्तबाहुजभुजातेजःसहस्रांशवः ॥
Metre: शार्दूलविक्रीडितम्
हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटासीदन्मर्कटकीटकृत्रिमसितच्छत्त्रीभवत्कौस्तुभम् । उज्झित्वा निजसद्म पद्ममपि तद्व्यक्तावनद्धीकृतं लूतातन्तुभिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति ॥
Metre: शार्दूलविक्रीडितम्
सिन्धोर्जैत्रमयं पवित्रमसृजत्तत्कीर्तिपूर्ताद्भुतं यत्र स्नान्ति जगन्ति सन्ति कवयः केवा न वाचंयमाः । यद्बिन्दुश्रियमिन्दुरञ्चति जलं चाविश्य दृश्येतरो यस्यासौ जलदेवतास्फटिकभूर्जागर्ति यागेश्वरः ॥
Metre: शार्दूलविक्रीडितम्
अन्तःसंतोषबाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्नङ्गे नानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् । न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥
Metre: स्रग्धरा
आचूडाग्रममज्जयज्जयपटुर्यच्छल्यदण्डानयं संरम्भे रिपुराजकुञ्जरघटाकुम्भस्थलेषु स्थिरान् । सा सेवास्य पृथुः प्रसीदति तया नास्मै कुतस्त्वत्कुचस्पर्धागर्धिषु तेषु तान्धृतवते दण्डान्प्रदण्डानपि ॥
Metre: शार्दूलविक्रीडितम्