नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 31 to 40 of 56 verses
Verse 31
किं ते तथा मतिरमुष्य यथाशयः स्यात्त्वत्पाणिपीडनविनिर्मितयेऽनपाशः । कान्मानवानवति नो भुवनं चरिष्णून्नासावमुत्र न रता भवतीति युक्तम् ॥
Metre: वसन्ततिलका

Verse 32
श्लोकादिह प्रथमतो हरिणा द्वितीयाद्धूमध्वजेन शमनेन समं तृतीयात् । तुर्याच्च तस्य वरुणेन समानभावं सा जानती पुनरवादि तया विमुग्धा ॥
Metre: वसन्ततिलका

Verse 33
त्वं याऽर्थिनी किल नले न शुभाय तस्याः क्व स्यान्निजार्पणममुष्य चतुष्टये ते । इन्द्रानलार्यमतनूजपयःपतीनां प्राप्यैकरूप्यमिह संसदि दीप्यमाने ॥
Metre: वसन्ततिलका

Verse 34
देवः पतिर्विदुषि नैष धराजगत्या निर्णीयते न किमु न व्रियते भवत्या । नायं नलः खलु तवातिमहानलाभो यद्येनमुज्झसि वरः कतरः परस्ते ॥
Metre: वसन्ततिलका

Verse 35
इन्द्राग्निदक्षिणदिगीश्वरपाशिभिस्तां वाचं नले तरलिताथ समां प्रमाय । सा सिन्धुवेणिरिव वाडववीतिहोत्रं लावण्यभूः कमपि भीमसुताप तापम् ॥
Metre: वसन्ततिलका

Verse 36
साप्तुं प्रयच्छति न पक्षचतुष्टये तां तल्लाभशंसिनि न पञ्चमकोटिमात्रे । श्रद्धां दधे निषधराड्विमतौ मतानामद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥
Metre: वसन्ततिलका

Verse 37
कारिष्यते परिभवः कलिना नलस्य तां द्वापरस्तु सुतनूमदुनोत्पुरस्तात् । भैमीनलोपयमनं पिशुनौ सहेते न द्वापरः किल कलिश्च युगे जगत्याम् ॥
Metre: वसन्ततिलका

Verse 38
उत्कण्ठयन्पृथगिमां युगपन्नलेषु प्रत्येकमेषु परिमोहयमाणबाणः । जानीवहे निजशिलीमुखशीलिसंख्यासाफल्यमाप स तदा यदि पञ्चबाणः ॥
Metre: वसन्ततिलका

Verse 39
देवानियं निषाधराजरुचस्त्यजन्ती रूपादरज्यत नले न विदर्भसुभ्रूः । जन्मान्तराधिगतकर्मविपाकजन्मैवोन्मीलति क्वचन कस्यचनानुरागः ॥
Metre: वसन्ततिलका

Verse 40
क्व प्राप्यते स पतगः परिपृच्छ्यते यः प्रत्येमि तस्य हि पुरेव नलं गिरेति । सस्मार सस्मरमतिः प्रति नैषधीयं तत्रामरालयमरालमरालकेशी ॥
Metre: वसन्ततिलका