नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 21 to 30 of 56 verses
Verse 21
तत्रापि तत्रभवती भृशसंशयालोरालोक्य सा विधिनिषेधनिवृत्तिमस्याः । यादःपतिं प्रति धृताभिमुखाङ्गुलीकपाणिः क्रमोचितमुपाक्रमताभिधातुम् ॥
Metre: वसन्ततिलका

Verse 22
या सर्वतोमुखतया व्यवतिष्ठमाना यादोरणैर्जयति नैकविदारका या । एतस्य भूरितरवारिनिधिश्चमूः सा यस्याः प्रतीतिविषयः परतो न रोधः ॥
Metre: वसन्ततिलका

Verse 23
नासीरसीमनि घनध्वनिरस्य भूयान्कुम्भीरवान्समकरः सहदानवारिः । उत्पद्मकाननसखः सुखमातनोति रत्नैरलंकरणभावमितैर्नदीनः ॥
Metre: वसन्ततिलका

Verse 24
सस्यन्दनैः प्रवहणैः प्रतिकूलपातं का वाहिनी न तनुते पुनरस्य नाम । तस्या विलासवति कर्कशताश्रिता या भूमः कथम्बहुतयासिकता वयं ताः ॥
Metre: वसन्ततिलका

Verse 25
शोणं पदप्रणयिनं गुणमस्य पश्य किंचास्य सेवनपरैव सरस्वती सा । एनं भजस्व सुभगे भुवनाधिनाथं किं वा भजन्ति तमिमं कमलाशया न ॥
Metre: वसन्ततिलका

Verse 26
शङ्कालताततिमनेकनलावलम्बां वाणी नवर्धयतु तावदभेदिकेयम् । भीमोद्भवां प्रति नले च जलेश्वरे च तुल्यं तथापि यदवर्धयदत्र चित्रम् ॥
Metre: वसन्ततिलका

Verse 27
बालां विलोक्य विबुधैरपि मायिभिस्तैरच्छद्मितामियमलीकनलीकृतस्वैः । आह स्म तां भगवती निषधाधिनाथं निर्दिश्य राजपरिषत्परिवेषभाजम् ॥
Metre: वसन्ततिलका

Verse 28
अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः । प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥
Metre: वसन्ततिलका

Verse 29
येनामुना बहुविगाढसुरेश्वराध्वराज्याभिषेकविकसन्महसा बभूवे । आवर्जनं तमनु ते ननु साधु नामग्राहं मया नलमुदीरितमेवमत्र ॥
Metre: वसन्ततिलका

Verse 30
यच्चण्डिमारणविधिव्यसनं च तत्त्वं बुद्ध्वाशयाश्रितममुष्य च दक्षिणत्वम् । सैषा नले सहजरागभरादमुष्मिन्नात्मानमर्पयितुमर्हसि धर्मराजे ॥
Metre: वसन्ततिलका