नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 21 to 30 of 101 verses
Verse 21
स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः । हीराङ्कुरश्चारुणि हेमनीव नले तयालोकि न दैवतेषु ॥
Metre: उपजातिः

Verse 22
सुरेषु मालाममलामपश्यन्नले तु बाला मलिनीभवन्तीम् । इमां किमासाद्य नलोऽद्य मृद्वीं श्रद्धास्यते मामिति चिन्तयेव ॥
Metre: उपजातिः

Verse 23
श्रियं भजन्तां कियदस्य देवाश्छाया नलस्यास्ति तथापि नैषाम् । इतीरयन्तीव तया निरैक्षि सा नैषधे न त्रिदशेषु तेषु ॥
Metre: उपजातिः

Verse 24
चिह्नैरमीभिर्नलसंविदस्याः संवादमाप प्रथमोपजाता । सा लक्षणव्यक्तिभिरेव देवप्रसादमासादितमप्यबोधि ॥
Metre: उपजातिः

Verse 25
नले निधातुं वरणस्रजं तां स्मरः स्म रामां त्वरयत्यथैनाम् । अपत्रपा तां निषिषेध तेन द्वयानुरोधं तुलितं दधौ सा ॥
Metre: उपेन्द्रवज्रा

Verse 26
स्रजा समालिङ्गयितुं प्रियं सा रसादधत्तैव बहुप्रयत्नम् । स्तम्भत्रपाभ्यामभवत्तदीये स्पन्दस्तु मन्दोऽपि न पाणिपद्मे ॥
Metre: उपजातिः

Verse 27
तस्या हृदि व्रीडमनोभवाभ्यां दोलाविलासं समवाप्यमाने । स्थितं धृतैणाङ्ककुलातपत्रे शृङ्गारमालिङ्गदधीश्वरश्रीः ॥
Metre: उपजातिः

Verse 28
करः स्रजा सज्जतरस्तदीयः प्रियोन्मुखः सन्विरराम भूयः । प्रियाननस्यार्धपथं ययौ च प्रत्याययौ चातिचलः कटाक्षः ॥
Metre: उपजातिः

Verse 29
तस्याः प्रियं चित्तमुपेतमेव प्रभूबभूवाक्षि न तु प्रयातुम् । सत्यः कृतः स्पष्टमभूत्तदानीं तयाक्ष्णि लज्जेति जनप्रवादः ॥
Metre: उपजातिः

Verse 30
कथं कथंचिन्निषधेश्वरस्य कृत्वास्यपद्मं दरवीक्षितश्रि । वाग्देवताया वदनेन्दुबिम्बं त्रपावती साकृत सामिदृष्टम् ॥
Metre: उपजातिः