नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 41 to 50 of 101 verses
Verse 41
एषामकृत्वा चरणप्रणाममेषामनुज्ञामनवाप्य सम्यक् । सुपर्ववैरे तव वैरसेनिं वरीतुमीहा कथमौचितीयम् ॥
Metre: उपजातिः

Verse 42
इतीरिते विश्वसितां पुनस्तामादाय पाणौ दिविषत्सु देवी । कृत्वा प्रणम्रां वदति स्म सा तान्भक्तेयमर्हत्यधुनानुकम्पाम् ॥
Metre: उपजातिः

Verse 43
युष्मान्वृणीते न बहून्सतीयं शेषावमानाच्च भवत्सु नैकम् । तद्वः समेतान्नृपमेनमंशान्वरीतुमन्विष्यति लोकपालाः ॥
Metre: उपजातिः

Verse 44
भैम्या स्रजःसञ्जनया पथि प्राक्स्वयंवरं संजनयांबभूव । संभोगमालिङ्गनयास्य वेधाः शेषं तु कं हन्तुमियद्यतध्वे ॥
Metre: उपजातिः

Verse 45
वर्णाश्रमाचारपथात्प्रजाभिः स्वाभिः सहैवास्खलते नलाय । प्रसेदुषो वेदृशवृत्तभङ्ग्या दित्सैव कीर्तेर्भुवमानयद्वः ॥
Metre: उपजातिः

Verse 46
इति श्रुतेऽस्या वचसैव हास्यात्कृत्वा सलास्याधरमास्यबिम्बम् । भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साथ नलाय निन्ये ॥
Metre: उपजातिः

Verse 47
मन्दाक्षनिस्पन्दतनोर्मनोभूदुष्प्रेरमप्यानयति स्म तस्याः । मधूकमालामधुरं करं सा कण्ठोपकण्ठं वसुधासुधांशोः ॥
Metre: उपजातिः

Verse 48
अथाभिलिख्येव समर्प्यमाणां राजिं निजस्वीकरणाक्षराणाम् । दूर्वाङ्कुराढ्यां नलकण्ठनाले वधूर्मधूकस्रजमुत्ससर्ज ॥
Metre: उपजातिः

Verse 49
तां दूर्वया श्यामलयातिवेलं शृङ्गारभाषंनिभया सुशोभाम् । मालां प्रसूनायुधपाशभासं कण्ठेन भूभृद्बिभरांबभूव ॥
Metre: इन्द्रवज्रा

Verse 50
दूर्वाग्रजाग्रत्पुलकावलिं तां नलाङ्गमङ्गाद्भृशमुल्लसन्तीम् । मानेन मन्ये नमितानना सा सासूयमालोकत पुष्पमालाम् ॥
Metre: उपजातिः

Showing 41 to 50 of 101 verses