नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 51 to 60 of 101 verses
Verse 51
कापि प्रमोदास्फुटनिर्जिहानवर्णेव या मङ्गलगीतिरासाम् । सैवाननेभ्यः पुरसुन्दरीणामुच्चैरुलूलुध्वनिरुच्चचार ॥
Metre: इन्द्रवज्रा

Verse 52
सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च । कियत्यमग्ना कियती च मग्ना पुष्पेषुबाणालिरिव व्यलोकि ॥
Metre: उपजातिः

Verse 53
रोमाणि सर्वाण्यपि बालभावाद्वरश्रियं वीक्षितुमुत्सुकानि । तस्यास्तदा कण्टकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ॥
Metre: उपजातिः

Verse 54
रोमाङ्कुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां विरेजे । शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिकेव ॥
Metre: उपजातिः

Verse 55
चेष्टा व्यनेशन्निखिलास्तदास्याः स्मरेषुवातैरिव ता विधूताः । अभ्यर्थ्य नीताः कलिना मुहूर्तं लाभाय तस्य बहु चेष्टितुं वा ॥
Metre: उपजातिः

Verse 56
तन्न्यस्तमाल्यस्पृशि यन्नलस्य स्वेदं करे पञ्चशरश्चकार । भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तज्जनयांबभूव ॥
Metre: उपजातिः

Verse 57
तूलेन तस्यास्तुलना मृदोस्तत्कम्प्राऽस्तु सा मन्मथबाणवातैः । चित्रीयितं तत्तु नलो यदुच्चैरभूत्स भूभृत्पृथुवेपथुस्तैः ॥
Metre: उपजातिः

Verse 58
दृशोरपि न्यस्तमिवास्त राज्ञां रागाद्दृगम्बुप्रतिबिम्बिमाल्यम् । नृपस्य तत्पीतवतोरिवाक्ष्णोः प्रालम्ब्यमालम्बनयुक्तमन्तः ॥
Metre: उपजातिः

Verse 59
स्तम्भस्तथालम्भितमां नलेन भैमीकरस्पर्शमुदः प्रसादः । कंदर्पलक्ष्यीकरणार्पितस्य स्तम्भस्य दम्भं स चिरं यथापत् ॥
Metre: इन्द्रवज्रा

Verse 60
उत्सृज्य साम्राज्यमिवाथ भिक्षां तारुण्यमुल्लङ्घ्य जरामिवारात् । तं चारुमाकारमुपेक्ष्य यान्तं निजां तनूमाददिरे दिगीशाः ॥
Metre: उपजातिः

Showing 51 to 60 of 101 verses