विलोक्य तावाप्तदुरापकामौ परस्परप्रेमरसाभिरामौ । अथ प्रभुः प्रीतमना बभाषे जाम्बूनदोर्वीधरसार्वभौमः ॥
Metre: उपजातिः
वैदर्भि दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव । दूत्यं तु यत्त्वं कृतवानमायं नल प्रसादस्त्वयि तन्ममायम् ॥
Metre: उपजातिः
प्रत्यक्षलक्ष्यामवलम्ब्य मूर्तिं हुतानि यज्ञेषु तवोपभोक्ष्ये । संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे ॥
Metre: उपजातिः
भवानपि त्वद्दयितापि शेषे सायुज्यमासादयतं शिवाभ्याम् । प्रेत्यास्मि कीदृग्भवितेति चिन्ता संतापमन्तस्तनुते हि जन्तोः ॥
Metre: उपजातिः
तवोपवाराणसि नामचिह्नं वासाय पारेसि पुरं पुरास्ति । निर्वातुमिच्छोरपि तत्र भैमीसंभोगसंकोचभियाधिकाशि ॥
Metre: उपजातिः
धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तमूचे । कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः ॥
Metre: उपजातिः
या दाहपाकौपयिकी तनुर्मे भूयात्त्वदिच्छावशवर्तिनी सा । तया पराभूततनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वमेधि ॥
Metre: उपजातिः
अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि । यद्भूप विद्मस्तव सूपकारक्रियासु कौतूहलशालि शीलम् ॥
Metre: उपजातिः
वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट धराधिराजम् । वरप्रदानाय तवावदानैश्चिरं मदीया रसनोद्धुरेयम् ॥
Metre: उपजातिः
सर्वाणि शस्त्राणि तवाङ्गचक्रैराविर्भवन्तु त्वयि शत्रुजैत्रे । अवाप्यमस्मादधिकं न किंचिज्जागर्ति वीरव्रतदीक्षितानाम् ॥
Metre: उपजातिः