गुणानामास्थानीं नृपतिलकनारीति विदितां रसस्फीतामन्तस्तव च तव वृत्ते च कवितुः । भवित्री वैदर्भीमधिकमधिकण्ठं रचयितुं परीरम्भक्रीडाचरणशरणामन्वहमहम् ॥
Metre: शिखरिणी
भवद्वृत्तस्तोतुर्मदुपहितकण्ठस्य कवितुर्मुखात्पुण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे । ततः पुण्यश्लोकः क्षितिभुवनलोकस्य भविता भवानाख्यातः सन्कलिकलुषहारी हरिरिव ॥
Metre: शिखरिणी
देवी च ते च जगदुर्जगदुत्तमाङ्गरत्नाय ते कथय कं वितराम कामम् । किंचित्त्वया नहि पतिव्रतया दुरापं भस्मास्तु यस्तव बत व्रतलोपमिच्छुः ॥
Metre: वसन्ततिलका
कूटकायमपहाय नो वपुर्बिभ्रतस्त्वमसि वीक्ष्य विस्मिता । आप्तुमाकृतिमतो मनीषितां विद्यया हृदि तवाप्युदीयताम् ॥
Metre: रथोद्धता
इत्थं वितीर्य वरमम्बरमाश्रयत्सु तेषु क्षणादुदलसद्विपुलः प्रणादः । उत्तिष्ठतां परिजनालपनैर्नृपाणां स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः ॥
Metre: वसन्ततिलका
न दोषं विद्वेषादपि निरवकाशं गुणमये वरेण प्राप्तास्त्रे न समरसमारम्भसदृशम् । जगुः पुण्यश्लोकं प्रतिनृपतयः किंतु विदधुः स्वनिश्वासैर्भैमीहृदयमुदयन्निर्भरदयम् ॥
Metre: शिखरिणी
भूभृद्भिर्लम्भिताऽसौ करुणरसनदीमूर्तिमद्देवतात्वं तातेनाभ्यर्थ्ययोग्याःसपदिनिजसखीर्दापयामासतेभ्यः । वैदर्भ्यास्तेऽप्यलाभात्कृतगमनमनःप्राणवाञ्छां विजघ्नुः सख्यः संशिक्ष्य विद्याः सततधृतवयस्यानुकाराभिराभिः ॥
Metre: स्रग्धरा
अहह सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासमाने । अपतदमरभर्तुर्मूर्तिबद्धेव कीर्तिर्गलदलिमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥
Metre: मालिनी
स्वस्यामरैर्नृपतिमंशममुं त्यजद्भिरंशच्छिदाकदनमेव तदाध्यगामि । उत्का स्म पश्यति निवृत्य निवृत्य यान्ती वाग्देवतपि निजविभ्रमधाम भैमीम् ॥
Metre: वसन्ततिलका
सानन्दं तनुजाविवाहनमहे भीमः स भूमीपतिर्वैदर्भीनिषधेश्वरौ नृपजनानिष्टोक्तिनिर्मृष्टये । स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमादेको द्वौ बहबश्चकार सृजतः स्मातेनिरे मङ्गलम् ॥
Metre: शार्दूलविक्रीडितम्