कृच्छ्रं गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतु त्वदीयम् । अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः ॥
Metre: उपजातिः
स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपतिं प्रचेताः । प्रदाय भैमीमधुना वरौ तु ददामि तद्यौतककौतुकेन ॥
Metre: उपेन्द्रवज्रा
यत्राभिलाषस्तव तत्र देशे नन्वस्तु धन्वन्यपि तूर्णमर्णः । आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथाऽपराणि ॥
Metre: उपजातिः
प्रसारितापः शुचिभानुनास्तु मरुः समुद्रत्वमपि प्रपद्य । भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव ॥
Metre: उपेन्द्रवज्रा
अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् । दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ॥
Metre: उपजातिः
वाग्देवतापि स्मितपूर्वमुर्वीसुपर्वराजं रभसाद्बभाषे । त्वत्प्रेयसीसंमदमाचरन्त्या मत्किं न किंचिद्ग्रहणोचितं ते ॥
Metre: उपजातिः
अर्थो विनैवार्थनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः । मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥
Metre: इन्द्रवज्रा
अवामावामार्धे सकलमुभयाकारघटनाद्द्विधाभूतं रूपं भगवदभिधेयं भवति यत् । तदन्तर्मन्त्रं मे स्मरहरमयं सेन्दुममलं निराकारं शश्वज्जप नरपते सिध्यतु सते ॥
Metre: शिखरिणी
सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते । यस्मै यः स्पृहयत्यनेन स तदेवाप्नोति इं भूयसा येनायं हृदये स्थितः सुकृतिना मन्मन्त्रचिन्तामणिः ॥
Metre: शार्दूलविक्रीडितम्
पुष्पैरभ्यर्च्य गन्धादिभिरपि सुभगैश्चारुहंसेन मां चेन्निर्यान्तीं मन्त्रमूर्तिं जपति मयि मतिं न्यस्य मय्येव भक्तः । तत्प्राप्ते वत्सरान्ते शिरसि करमसौ यस्य कस्यापि धत्ते सोऽपि श्लोकानकाण्डे रचयति रुचिरान्कौतुकं दृश्यमस्याः ॥
Metre: स्रग्धरा