मायानलत्वं त्यजतो निलीनैः पूर्वैरहंपूर्विकया मघोनः । भीमोद्भवासात्त्विकभावशोभा दिदृक्षयेवाविरभावि नेत्रैः ॥
Metre: उपजातिः
गोत्रानुकूलत्वभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः । पुरश्चकार प्रवरं वरं यमायन्सखायं ददृशे तया सः ॥
Metre: उपजातिः
स्वकामसंमोहमहान्धकारनिर्वापमिच्छन्निव दीपिकाभिः । उद्गत्वरीभिश्छुरितं वितेने निजं वपुर्वायुसखः शिखाभिः ॥
Metre: उपजातिः
पत्यौ वृते भीमजया न वह्नावह्ना स्वमह्नाय निजुह्नुवे यः । जनादपत्रप्य स हा सहायस्तस्य प्रकाशोऽभवदप्रकाशः ॥
Metre: उपजातिः
सदण्डमालक्तकनेत्रचण्डं तमःकिरं कायमधत्त कालः । तत्कालमन्तःकरणं नृपाणामध्यासितुं कोप इवोपनम्रः ॥
Metre: उपजातिः
दृग्गोचरोऽभूदथ चित्रगुप्तः कायस्थ उच्चैर्गुण एतदीयः । ऊर्ध्वं तु पत्त्रस्य मषीद एको मषेर्ददञ्चोपरि पत्त्रमन्यः ॥
Metre: उपजातिः
तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः । पाशं दधानः करबद्धवासं विभुर्बभावाप्यमवाप्य देहम् ॥
Metre: उपजातिः
सहद्वितीयः स्त्रियमभ्युपेयादेवं स दुर्बुध्य नयोपदेशम् । अन्यां सभार्यः कथमृच्छतीति जलाधिपोऽभूदसहाय एव ॥
Metre: उपजातिः
देव्यापि दिव्याऽनु तनुः प्रकाशीकृता मुदश्चक्रभृतः सृजन्ती । अनिह्नुतैस्तामवधार्य चिह्नैस्तद्वाचि बाला शिथिलाद्भुताभूत् ॥
Metre: उपजातिः
विलोकके नायकमेलकेऽस्मिन्रूपान्यताकौतुकदर्शिभिस्तैः । बाधा बतेन्द्रादिभिरिन्द्रजालविद्याविदां वृत्तिवधाद्व्यधायि ॥
Metre: उपजातिः