नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 1 to 10 of 101 verses
Verse 1
अथाधिगन्तुं निषधेश्वरं सा प्रसादनामाद्रियतामराणाम् । यतः सुराणां सुरभिर्नृणां तु सा वेधसासृज्यत कामधेनुः ॥
Metre: उपजातिः

Verse 2
प्रदक्षिणप्रक्रमणालवालविलेपधूपाचरणाम्बुसेकैः । इष्टं च मृष्टं च फलं सुवाना देवा हि कल्पद्रुमकाननं नः ॥
Metre: उपजातिः

Verse 3
श्रद्धामयीभूय सुपर्वणस्तान्ननाम नामग्रहणाग्रकं सा । सुरेषु हि श्रद्दधतां नमस्य सर्वार्थसिद्ध्यङ्गमिथः समस्या ॥
Metre: उपजातिः

Verse 4
यत्तान्निजे सा हृदि भावनाया बलेन साक्षादकृताखिलस्थान् । अभूदभीष्टप्रतिभूः स तस्या वरं हि दृष्टा ददते परं ते ॥
Metre: उपजातिः

Verse 5
सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा । आमुद्यते यत्सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव ॥
Metre: उपजातिः

Verse 6
वैशद्यहृद्यैर्म्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः । आनर्च गीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तबकैर्नवीनैः ॥
Metre: उपजातिः

Verse 7
हृत्पद्मसद्मन्यधिवास्य बुद्ध्या दध्यावथैतानियमेकताना । सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः ॥
Metre: उपजातिः

Verse 8
भक्त्या तयैव प्रससाद तस्यास्तुष्टं स्वयं देवचतुष्टयं ततः । स्वेनानलस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु स्यात् ॥
Metre: इन्द्रवज्रा

Verse 9
प्रसादमासाद्य सुरैः कृतं सा सस्मार सारस्वतसूक्तिसृष्टेः । देवा हि नान्यद्वितरन्ति किंतु प्रसद्य ते साधुधियं ददन्ते ॥
Metre: उपजातिः

Verse 10
शेषं नलं प्रत्यमरेण गाथा या या समर्था खलु येन येन । तां तां तदन्येन सहालगन्तीं तदा विशेषं प्रतिसंदधे सा ॥
Metre: उपजातिः

Showing 1 to 10 of 101 verses