नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 1 to 10 of 56 verses
Verse 1
कल्पद्रुमान्परिमला इव भृङ्गमालामात्माश्रयामखिलनिन्दनशाखिवृन्दात् । तां राजकादपगमय्य विमानधुर्या निन्युर्नलाकृतिधरानथ पञ्चवीरान् ॥
Metre: वसन्ततिलका

Verse 2
साक्षात्कृताखिलजगज्जनताचरित्रा तत्राधिनाथमधिकृत्य दिवस्तथा सा । ऊचे यथा स च शचीपतिरभ्यधायि प्राकाशि तस्य न च नैषधकायमाया ॥
Metre: वसन्ततिलका

Verse 3
ब्रूमः किमस्य वरवर्णिनि वीरसेनोद्भूतिं द्विषद्बलविजित्वरपौरुषस्य । सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभीरणश्रीः ॥
Metre: वसन्ततिलका

Verse 4
शुभ्रांशुहारगणहारिपयोधराङ्कचुम्बीन्द्रचापखचितद्युमणिप्रभाभिः । अन्वास्यते समिति चामरवाहिनीभिर्यात्रासु चैष बहुलाभरणार्चिताभिः ॥
Metre: वसन्ततिलका

Verse 5
क्षोणीभृतामतुलकर्कशविग्रहाणामुद्दामदर्पहरिकुञ्जरकोटिभाजाम् । पक्षच्छिदामयमुदग्रबलो विधाय मग्नं विपज्जलनिधौ जगदुज्जहार ॥
Metre: वसन्ततिलका

Verse 6
भूमीभृतः समिति जिष्णुमपव्यपायं जानीहि न त्वमघवन्तममुं कथंचित् । गुप्तं घटप्रतिभटस्तनि बाहुनेत्रं नालोकसेऽतिशयमद्भुतमेतदीयम् ॥
Metre: वसन्ततिलका

Verse 7
लेखा नितम्बिनि बलादिसमृद्धराज्यप्राज्योपभोगपिशुना दधते सरागम् । एतस्य पाणिचरणं तदनेन पत्या सार्धं शचीव हरिणा मुदमुद्वहस्व ॥
Metre: वसन्ततिलका

Verse 8
आकर्ण्य तुल्यमखिलां सुदती लगन्तीमाखण्डलेऽपि च नलेऽपि च वाचमेताम् । रूपं समानमुभयत्र विगाहमाना श्रोत्रान्न निर्णयमवापदसौ न नेत्रात् ॥
Metre: वसन्ततिलका

Verse 9
शक्रः किमेष निषाधाधिपतिः स वेति दोलायमानमनसं परिभाव्य भैमीम् । निर्दिश्य तत्र पवनस्य सखायमस्यां भूयोऽसृजद्भगवती वचसः स्रजं सा ॥
Metre: वसन्ततिलका

Verse 10
एष प्रतापनिधिरुद्गतिमान्सदाऽयं किं नाम्नार्जितमनेन धनंजयेन । हेम प्रभूतमधिगच्छ शुचेरमुष्मानास्येव कस्यचन भास्वररूपसंपत् ॥
Metre: वसन्ततिलका

Showing 1 to 10 of 56 verses