नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 11 to 20 of 56 verses
Verse 11
अस्यर्थहेतिपटुताकवलीभवत्तत्तत्पार्थिवाधिकरणप्रभवाऽस्य भूतिः । अप्यङ्गरागजननाय महेश्वरस्य संजायते रुचिरकर्णि तपस्विनोऽपि ॥
Metre: वसन्ततिलका

Verse 12
एतन्मुखा विबुधसंसदसावशेषा माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि । एनं महस्विनमुपेहि सदारुणोच्चैर्येनामुना पितृमुखि ध्रियते करश्रीः ॥
Metre: वसन्ततिलका

Verse 13
नैवाल्पमेधसि पटो रुचिमत्त्वमस्य मध्येसमिन्निवसतो रिपवस्तृणानि । उत्थानवानिह पराभवितुं तरस्वी शक्यः पुनर्भवति केन विरोधिनायम् ॥
Metre: वसन्ततिलका

Verse 14
साधारणीं गिरमुषर्बुधनैषधाभ्यामेतां निपीय न विशेषमवाप्तवत्या । ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूते स्म चान्यदनलोऽयमितीदमीयम् ॥
Metre: वसन्ततिलका

Verse 15
एतादृशीमथ विलोक्य सरस्वती तां संदेहचित्रभयचित्रितचित्तवृत्तिम् । देवस्य सूनुमरविन्दविकासिरश्मेरुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे ॥
Metre: वसन्ततिलका

Verse 16
दण्डं बिभर्त्ययमहो जगतस्ततः स्यात्कम्पाकुलस्य सकलस्य न पङ्कपातः । स्वर्वैद्ययोरपि मदव्ययदायिनीभिरेतस्य रुग्भिरमरः किमु कश्चिदस्ति ॥
Metre: वसन्ततिलका

Verse 17
मित्त्रप्रियोपजननं प्रति हेतुरस्य संज्ञा श्रुतासुहृदयं न जनस्य कस्य । छायेदृगस्य च न कुत्रचिदध्यगायि तप्तं यमेन नियमेन तपोऽमुनैव ॥
Metre: वसन्ततिलका

Verse 18
किंच प्रभावनमिताखिलराजतेजा देवः पिताम्बरमणी रमणीयमूर्तिः । उत्क्रान्तिदा कमनु न प्रतिभाति शक्तिः कृष्णत्वमस्य च परेषु गदान्नियोक्तुः ॥
Metre: वसन्ततिलका

Verse 19
एकः प्रभावमयमेति परेतराजौ तज्जीवितेशधियमत्र निधत्स्व मुग्धे । भूतेषु यस्य खलु भूरियमस्य वश्यभावं समाश्रयति दस्रसहोदरस्य ॥
Metre: वसन्ततिलका

Verse 20
गुम्फो गिरां शमननैषधयोः समानः शङ्कामनेकनलदर्शनजातशङ्के । चित्ते विदर्भवसुधाधिपतेः सुताया यन्निर्ममे खलु तदेष पिपेष पिष्टम् ॥
Metre: वसन्ततिलका

Showing 11 to 20 of 56 verses