एकैकवृत्तेः प्रतिलोकपालं पतिव्रतात्वं जगृहुर्दिशां याः । वेद स्म गाथा मिलितास्तदासावाशा इवैकस्य नलस्य वश्याः ॥
Metre: उपजातिः
या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव । तामेव मेने मिलितां नलस्य सैषा विशेषाय तदा नलस्य ॥
Metre: इन्द्रवज्रा
निश्चित्य शेषं तमसौ नरेशं प्रमोदमेदस्वितरान्तराभूत् । देव्या गिरां भावितभङ्गिराख्यच्चित्तेन चिन्तार्णवयादसेयम् ॥
Metre: उपजातिः
सा भङ्गिरस्याः खलु वाचि कापि यद्भारती मूर्तिमतीयमेव । श्लिष्टं निगद्यादृत वासवादीन्विशिष्य मे नैषधमप्यवादीत् ॥
Metre: उपजातिः
जग्रन्थ सेयं मदनुग्रहेण वचःस्रजः स्पष्टयितुं चतस्रः । द्वे ते नलं लक्षयितुं क्षमेते ममैव मोहोऽयमहो महीयान् ॥
Metre: उपजातिः
श्लिष्यन्ति वाचो यदमूरमुष्याः कवित्वशक्तेः खलु ते विलासाः । भूपाललीलाः किल लोकपालाः समाविशन्ति व्यतिभेदिनोऽपि ॥
Metre: उपजातिः
त्यागं महेन्द्रादिचतुष्टस्य किमभ्यनन्दत्क्रमसूचिरस्य । किं प्रेरयामास नले च तन्मां सा सूक्तिरस्या मम कः प्रमोहः ॥
Metre: इन्द्रवज्रा
परस्य दारान्खलु मन्यमानैरस्पृश्यमानाममरैर्धरित्रीम् । भक्त्यैव भर्तुश्चरणौ दधानां नलस्य तत्कालमपश्यदेषा ॥
Metre: उपजातिः
सुरेषु नापश्यदवैक्षताक्ष्णोर्निमेषमुर्वीभृति संमुखी सा । इह त्वमागत्य नले मिलेति संज्ञानदानादिव भाषमाणम् ॥
Metre: उपजातिः
नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु । पत्ये सृजन्त्याः परिरम्भमुर्व्याः संभूतसंभेदमसंशयं सा ॥
Metre: इन्द्रवज्रा