नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 31 to 40 of 101 verses
Verse 31
अजानतीवेदमवोचदेनामाकूतमस्यास्तदवेत्य देवी । भावस्त्रपोर्मिप्रतिसीरया ते न दीयते लक्षयितुं ममापि ॥
Metre: उपजातिः

Verse 32
देव्याः श्रुतौ नेति नलार्धनाम्नि गृहीत एव त्रपया निपीता । अथाङ्गुलीरङ्गुलिभिर्मृशन्ती दूरं शिरः सा नमयांचकार ॥
Metre: उपजातिः

Verse 33
करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य । वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥
Metre: उपजातिः

Verse 34
विहस्य हस्तेऽथ विकृष्य देवी नेतुं प्रयाताऽभि महेन्द्रमेताम् । भ्रमादियं दत्तमिवाहिदेहे ततश्चमत्कृत्य करं चकर्ष ॥
Metre: उपजातिः

Verse 35
भैमीं निरीक्ष्याभिमुखीं मघोनः स्वाराज्यलक्ष्मीरभृताभ्यसूयाम् । दृष्ट्वा ततस्तत्परिहारिणीं तां व्रीडं बिडौजःप्रवणाभ्यपादि ॥
Metre: इन्द्रवज्रा

Verse 36
त्वत्तः श्रुतं नेति नले मयातः परं वदस्वेत्युदिताथ देव्या । ह्रीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधाभूत् ॥
Metre: उपजातिः

Verse 37
हसत्सु भैमीं दिविषत्सु पाणौ पाणिम्प्रणीयाप्सरसां रसात्सा । आलिङ्ग्य नीत्वाकृत पान्थदुर्गां भूपालदिक्पालकुलाध्वमध्यम् ॥
Metre: उपजातिः

Verse 38
आदेशितामप्यवलोक्य मन्दं मन्दं नलस्यैव दिशा चलन्तीम् । भूयः सुरानर्धपथादथासौ तानेव तां नेतुमना नुनोद ॥
Metre: इन्द्रवज्रा

Verse 39
मुखाब्जमावर्तनलोलनालं कृत्वालिहूंहूंरवलक्ष्यलक्ष्यम् । भीमोद्भवा तां नुनुदेऽङ्कपालीं देव्या नवोढेव दृढां विवोढुः ॥
Metre: उपजातिः

Verse 40
देवी कथंचित्खलु तामदेवद्रीचीं भवन्तीं स्मितसिक्तसृक्का । आह स्म मां प्रत्यपि ते पुनः का शङ्का शशाङ्कादधिकास्यबिम्बे ॥
Metre: इन्द्रवज्रा