नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 31 to 40 of 93 verses
Verse 31
बलस्य कृष्टेव हलेन भाति या कलिन्दकन्या घनभङ्गभङ्गुरा । तदार्पितैस्तां करुणस्य कुड्मलैः जहास तस्याः कुटिला कचच्छटा ॥
Metre: वंशस्थम्

Verse 32
धृतैतया हाटकपट्टिकालिके बभूव केशाम्बुदविद्युदेव सा । मुखेन्दुसंबन्धवशात्सुधाजुषः स्थिरत्वमूहे नियतं तदायुषः ॥
Metre: वंशस्थम्

Verse 33
ललाटिकासीमनि चूर्णकुन्तला बभुः स्फुटं भीमनरेन्द्रजन्मनः । मनःशिलाचित्रकदीपसंभवा भ्रमीभृतः कज्जलधूमवल्लयः ॥
Metre: वंशस्थम्

Verse 34
अपाङ्गमालिङ्ग्य तदीयमुच्चकैरदीपि रेखा जनिताञ्जनेन या । अपाति सूत्रं तदिव द्वितीयया वयःश्रिया वर्धयितुं विलोचने ॥
Metre: वंशस्थम्

Verse 35
अनङ्गलीलाभिरपाङ्गधाविनः कनीनिकानीलमणेः पुनः पुनः । तमिस्रवंशप्रभवेन रश्मिना स्वपद्धतिः सा किमरञ्जि नाञ्जनैः ॥
Metre: वंशस्थम्

Verse 36
असेविषातां सुषमां विदर्भजादृशाववाप्याञ्जनरेखयाऽन्वयम् । भुजद्वयज्याकिणपद्धतिस्पृशोः स्मरेण बाणीकृतयोः पयोजयोः ॥
Metre: वंशस्थम्

Verse 37
तदक्षितत्कालतुलागसा नखं निखाय कृष्णस्य मृगस्य चक्षुषी । विधिर्यदुद्धर्तुमियेष तत्तयोरदूरवर्तिक्षतता स्म शंसति ॥
Metre: वंशस्थम्

Verse 38
विलोचनाभ्यामतिमात्रपीडिते वतंसनीलाम्बुरुहद्वयीं खलु । तयोः प्रतिद्वन्द्विधियाधिरोपयांबभूवतुर्भीमसुताश्रुती ततः ॥
Metre: वंशस्थम्

Verse 39
धृतं वतंसोत्पलयुग्ममेतया व्यराजदस्यां पतिते दृशाविव । मनोभुवान्ध्यं गमितस्य पश्यतः स्थिते लगित्वा रसिकस्य कस्यचित् ॥
Metre: वंशस्थम्

Verse 40
विदर्भपुत्रीश्रवणावतंसिकामणीमहःकिंशुककार्मुकोदरे । उदीतनेत्रोत्पलबाणसंभृतिर्नलं परं लक्ष्यमवैक्षत स्मरः ॥
Metre: वंशस्थम्