नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 41 to 50 of 93 verses
Verse 41
अनाचरत्तथ्यमृषाविचारणां तदाननं कर्णलतायुगेन किम् । बबन्ध जित्वा मणिकुण्डले विधू द्विचन्द्रबुद्ध्या कथितावसूयकौ ॥
Metre: वंशस्थम्

Verse 42
अवादि भैमी परिधाप्य कुण्डले वयस्ययाभ्यामभितः समन्वयः । त्वदाननेन्दोः प्रियकामजन्मनि श्रयत्ययं दौरुधरीं धुरं ध्रुवम् ॥
Metre: वंशस्थम्

Verse 43
निवेशितं यावकरागदीप्तये लगत्तदीयाधरसीम्नि सिक्थकम् । रराज तत्रैव निवस्तुमुत्सुकं मधूनि निर्धूय सुधासधर्मणि ॥
Metre: वंशस्थम्

Verse 44
स्वरेण वीणेत्यविशेषणं पुरा स्फुरत्तदीया खलु कण्ठकन्दली । अवाप्य तन्त्रीरथ सप्त मुक्तिकासरानराजत्परिवादिनी स्फुटम् ॥
Metre: वंशस्थम्

Verse 45
उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया । विरेजतुर्माङ्गलिकेन संगतौ भुजौ सुदत्या वलयेन कम्बुनः ॥
Metre: वंशस्थम्

Verse 46
पदद्वयेऽस्या नवयावरञ्जना जनैस्तदानीमुदनीयतार्पिता । चिराय पद्मौ परिरभ्य जाग्रती निशीव विश्लिष्य नवा रविद्युतिः ॥
Metre: वंशस्थम्

Verse 47
कृतापराधः सुतनोरनन्तरं विचिन्त्य कान्तेन समं समागमम् । स्फुटं सिषेवे कुसुमेषुपावकः स रागचिह्नश्चरणौ न यावकः ॥
Metre: वंशस्थम्

Verse 48
स्वयं तदङ्गेषु गतेषु चारुतां परस्परेणैव विभूषितेषु च । किमूचिरेऽलंकरणानि तानि तद्दृतैव तेषां करणं बभूव यत् ॥
Metre: वंशस्थम्

Verse 49
क्रमाधिकामुत्तरमुत्तरं श्रियं पुपोष यां भूषणचुम्बनैरियम् । पुरः पुरस्तस्थुषि रामणीयके तया बबाधेऽवधिबुद्धिधोरणिः ॥
Metre: वंशस्थम्

Verse 50
मणीसनाभौ मुकुरस्य मण्डले बभौ निजास्यप्रतिबिम्बदर्शिनी । विधोरदूरं स्वमुखं विधाय सा निरूपयन्तीव विशेषमेतयोः ॥
Metre: वंशस्थम्

Showing 41 to 50 of 93 verses