नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 51 to 60 of 93 verses
Verse 51
जितस्तदास्येन कलानिधिर्दधे द्विचन्द्रधीसाक्षिकमायकायताम् । तथापि जिग्ये युगपत्सखीयुगप्रदर्शितादर्शबहूभविष्णुना ॥
Metre: वंशस्थम्

Verse 52
किमालियुग्मार्पितदर्पणद्वये तदास्यमेकं बहु चान्यदम्बुजम् । हिमेषु निर्वाप्य निशासमाधिभिः तदीयसालोक्यमितं व्यलोक्यत ॥
Metre: वंशस्थम्

Verse 53
पलाशदामेतिमिलच्छिलीमुखैर्वृता विभूषामणिरश्मिकार्मुकैः । अलक्षि लक्षैर्धनुषामसौ तदा रतीशसर्वस्वतयाऽभिरक्षिता ॥
Metre: वंशस्थम्

Verse 54
विशेषतीर्थैरिव जह्नुनन्दिनी गुणैरिवाजानिकरागभूमिता । जगाम भाग्यैरिव नीतिरुज्ज्वलैर्विभूषणैस्तत्सुषमा महार्धताम् ॥
Metre: वंशस्थम्

Verse 55
नलात्स्ववैश्वस्त्यमनाप्तुमानता नृपस्त्रियो भीममहोत्सवागताः । तदङ्घ्रिलाक्षामदधन्त मङ्गलं शिरःसु सिन्दूरमिव प्रियायुषे ॥
Metre: वंशस्थम्

Verse 56
अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवराक्षरस्रजाम् । ततः प्रणम्राधिजगाम सा ह्रिया गुरुर्गुरुब्रह्मपतिव्रताशिषाः ॥
Metre: वंशस्थम्

Verse 57
तथैव तत्कालमथानुजीविभिः प्रसाधनासञ्जनशिल्पपारगैः । निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा ॥
Metre: वंशस्थम्

Verse 58
नृपस्य तत्राधिकृताः पुनः पुनर्विचार्य तान्बन्धमवापिपन्कचान् । कलापलीलोपनिधिर्गरुत्त्यजः स यैरपालापि कलापिसंपदः ॥
Metre: वंशस्थम्

Verse 59
पतत्त्रिणां द्राधिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः । कचेन तस्यार्जितमार्जनश्रिया समेत्य सौभाग्यमलम्भि कुङ्नलैः ॥
Metre: वंशस्थम्

Verse 60
अनर्ध्यरत्नौघमयेन मण्डितो रराज राजा मुकुटेन मूर्धनि । वनीपकानां स हि कल्पभूरुहस्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥
Metre: वंशस्थम्

Showing 51 to 60 of 93 verses