नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 11 to 20 of 113 verses
Verse 11
तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतां शङ्के यत्प्रतिबिम्बमम्बुधिपयःपूरोदरे वाडवः । व्योमव्यापिविपक्षराजकयशस्ताराः पराभावुकः कासामस्य न स प्रतापतपनः पारं गिरां गाहते ॥
Metre: शार्दूलविक्रीडितम्

Verse 12
द्वेष्याकीर्तिकलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयी कीर्तिश्रेणिमयी समागममगाद्गङ्गा रणप्राङ्गणे । तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥
Metre: शार्दूलविक्रीडितम्

Verse 13
इति श्रुतिस्वादिततद्गुणस्तुतिः सरस्वतीवाङ्मयविस्मयोत्थया । शिरस्तिरःकम्पनयैव भीमजा न तं मनोरन्वयमन्वमन्यत ॥
Metre: वंशस्थम्

Verse 14
युवान्तरं सा वचसामधीश्वरा स्वरामृतन्यक्कृतमत्तकोकिला । शशंस संसक्तकरैव तद्दिशा निशापतिज्ञातिमुखीमिमां प्रति ॥
Metre: वंशस्थम्

Verse 15
न पाण्ड्यभूमण्डनमेणलोचने विलोचनेनापि नृपं पिपाससि । शशिप्रकाशाननमेनमीक्षितुं तरङ्गयापाङ्गदिशा दृशोस्त्विषः ॥
Metre: वंशस्थम्

Verse 16
भुवि भ्रमित्वानवलम्बमम्बरे विहर्तुमभ्यासपरम्परापरा । अहो महावंशममुं समाश्रिता सकौतुकं नृत्यति कीर्तिनर्तकी ॥
Metre: वंशस्थम्

Verse 17
इतो भिया भूपतिभिर्वनं वनादटद्भिरुच्चैरटवीत्वमीयुषी । निजापि सावापि चिरात्पुनः पुरी पुनः स्वमध्यासि विलासमन्दिरम् ॥
Metre: वंशस्थम्

Verse 18
आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः । वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयश्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥
Metre: स्रग्धरा

Verse 19
भङ्गाकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभटश्रेणीतिन्दुककाननेषु विलसत्यस्य प्रतापानलः । तस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः ॥
Metre: शार्दूलविक्रीडितम्

Verse 20
एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं सङ्ग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः । पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामरश्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम् ॥
Metre: शार्दूलविक्रीडितम्

Showing 11 to 20 of 113 verses