शशंस दासीङ्गितविद्विदर्भजामितो ननु स्वामिनि पश्य कौतुकम् । यदेष सौधाग्रनटे पटाञ्चले चलेऽपि काकस्य पदार्पणग्रहः ॥
Metre: वंशस्थम्
ततस्तदप्रस्तुतभाषितोत्थितैः सदस्तदश्वेति हसैः सदःसदाम् । स्फुटाजनि म्लानिरतोऽस्य भूपतेः सिते हि जायेत शितेः सुलक्ष्यता ॥
Metre: वंशस्थम्
ततोऽनु देव्या जगदे महेन्द्रभूपुरंदरं सा जगदेकवन्द्यया । तदार्जवावर्जिततर्जनीकया जनी कयाचित्परचित्स्वरूपया ॥
Metre: वंशस्थम्
स्वयंवरोद्वाहमहे वृणीष्व हे महेन्द्रशैलस्य महेन्द्रमागतम् । कलिङ्गजानां स्वकुचद्वयश्रिया कलिं गजानां शृणु तत्र कुम्भयोः ॥
Metre: वंशस्थम्
अयं किलायात् इतीरिपौरवाग्भयादयादस्य रिपुर्वृथा वनम् । श्रुताष्तदुत्स्वापगिरस्तदक्षाराः पठद्भिरत्रासि शुकैर्वनेऽपि सः ॥
Metre: वंशस्थम्
इतस्त्रसद्विद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः । शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल ॥
Metre: वंशस्थम्
इतोऽपि किं वीरयसे न कुर्वतो नृपान्धनुर्बाणगुणैर्वशंवदान् । गुणेन शुद्धेन विधाय निर्भरं तमेनमुर्वीवलयोर्वशी वशम् ॥
Metre: वंशस्थम्
एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा । आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्बप्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ॥
Metre: स्रग्धरा
अस्मिन्दिग्विजयोद्यते पतिरयं मे स्यादिति ध्यायिनी कम्पं सात्त्विकभावमञ्चति रिपुक्षोणीन्द्रदारा धरा । अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ॥
Metre: शार्दूलविक्रीडितम्
विद्राणे रणचत्वरादरिगणे त्रस्ते समस्ते पुनः कोपात्कोऽपि निवर्तते यदि भटः कीर्त्या जगत्युद्भटः । आगच्छन्नपि संमुखं विमुखतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण ठणिति च्छिन्नापसर्पच्छिराः ॥
Metre: शार्दूलविक्रीडितम्