नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 1 to 10 of 113 verses
Verse 1
प्रियाह्रियालम्ब्य विलम्बमाविला विलासिनः कुण्डिनमण्डनायितम् । समाजमाजग्मुरथो रथोत्तमाः तमा समुद्रादपरेऽपरे नृपाः ॥
Metre: वंशस्थम्

Verse 2
ततः स भैम्या ववृते वृते नृपै र्विनिःश्वसद्भिः सदसि स्वयंवरः । चिरागतैस्तर्किततद्विरागितैः स्फुरद्भिरानन्दमहार्णवैर्नवैः ॥
Metre: वंशस्थम्

Verse 3
चलत्पदस्तत्पदयन्त्रणेङ्गितः फुटाशयामासयति स्म राजके । श्रमं गता यानगतावपीयम् इत्युदीर्य धुर्यः कपटाज्जनीं जनः ॥
Metre: वंशस्थम्

Verse 4
नृपानुपक्रम्य विभूषितासनान्सनातनी सा सुषुवे सरस्वती । विहारमारभ्य सरस्वतीः सुधासरःस्वतीवार्द्रतनूरनूत्थिताः ॥
Metre: वंशस्थम्

Verse 5
वृणीष्व वर्णेन सुवर्णकेतकीप्रसूनवर्णादृतुपर्णमादृतम् । निजामयोध्यामपि पावनीमयं भवन्मयो ध्यायति नावनीपतिः ॥
Metre: वंशस्थम्

Verse 6
न पीयतां नाम चकोरजिह्वया कथंचिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी ॥
Metre: वंशस्थम्

Verse 7
अपां विहारे तव हारविभ्रमं करोतु नीरे पृषदुत्करस्तरन् । कठोरपीनोच्चकुचद्वयीतटत्रुट्यत्तरः सारवसारवोर्मिजः ॥
Metre: वंशस्थम्

Verse 8
अखानि सिन्धुः समपूरि गङ्गया कुले किलास्य प्रसभं स भन्त्स्यते । विलङ्घ्यते चास्य यशःशतैरहो सतां महत्संमुखधावि पौरुषम् ॥
Metre: वंशस्थम्

Verse 9
एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम् । एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ॥
Metre: उपजातिः

Verse 10
भास्वद्वंशकरीरतां दधदयं वीरः कथं कथ्यतामध्युष्टापि हि कोटिरस्य समरे रोमाणि सत्त्वाङ्कुराः । नीतः संयति बन्दिभिः श्रुतिपथं यन्नामवर्णावलीमन्त्रः स्तम्भयति प्रतिक्षितिभृतां दोस्तम्भकुम्भीनसान् ॥
Metre: शार्दूलविक्रीडितम्

Showing 1 to 10 of 113 verses