नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 41 to 50 of 56 verses
Verse 41
एकैकमैक्षत मुहुर्महतादरेण भेदं विवेद न च पञ्चसु कंचिदेषा । शङ्काशतं वितरता हरता पुनस्तदुन्मादिनेव मनसेयमिदं तदाह ॥
Metre: वसन्ततिलका

Verse 42
अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः । स्वच्छोपसर्पणमपि प्रतिमाभिमाने भेदभ्रमे पुनरमीषु न मे निमित्तम् ॥
Metre: वसन्ततिलका

Verse 43
किं वा तनोति मयि नैषध एव कावव्यूहं विधाय परिहासमसौ विलासी । विज्ञानवैभवभृतः किमु तस्य विद्या सा विद्यते न तुरगाशयवेदितेव ॥
Metre: वसन्ततिलका

Verse 44
एको नलः किमयमन्यतमः किमैलः कामोऽपरः किमु किमु द्वयमाश्विनेयौ । किं रूपधेयभरसीमतया समेषु तेष्वेव नेह नलमोहमहं वहे वा ॥
Metre: वसन्ततिलका

Verse 45
पूर्वं मया विरहनिःसहयापि दृष्टः सोऽयं प्रियस्तत इतो निषधाधिराजः । भूयः किमागतवती मम सा दशेयं पश्यामि यद्विलसितेन नलानलीकान् ॥
Metre: वसन्ततिलका

Verse 46
मुग्धा दधामि कथमित्थमथापशङ्कां संक्रन्दनादिकपटः स्फुटमीदृशोऽयम् । देव्यानयैव रचिता हि तथा तथैषां गाथा यथा दिगधिपानपि ताः स्पृशन्ति ॥
Metre: वसन्ततिलका

Verse 47
एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे कथं नु मनुजस्य चकास्तु चिह्नम् । लक्ष्माणि तानि किममी न वहन्ति हन्त बर्हिर्मुखा धुतरजस्तनुतामुखानि ॥
Metre: वसन्ततिलका

Verse 48
याचे नलं किममरानथवा तदर्थं नित्यार्चनादपि ममाफलिनैरलं तैः । कंदर्पशोषणशिलीमुखपातपीतकारुण्यनीरनिधिगह्वरधोरचित्तैः ॥
Metre: वसन्ततिलका

Verse 49
ईशा दिशां नलभुवं प्रतिपद्य लेखा वर्णिश्रियं गुणवतामपि वः कथं वा । मूर्खान्धकूपपतनादिव पुस्तकानामस्तं गतं बत परोपकृतिव्रतत्वम् ॥
Metre: वसन्ततिलका

Verse 50
यस्येश्वरेण यदलेखि ललाटपट्टे तत्स्यादयोग्यमपि योग्यमपास्य तस्य । का वासनास्तु बिभृयामिह यां हृदाहं नार्कातपैर्जलजमेति हिमैस्तु दाहम् ॥
Metre: वसन्ततिलका

Showing 41 to 50 of 56 verses