नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 71 to 80 of 113 verses
Verse 71
अकर्णधाराशुगसंभृशाङ्गतां गतैररित्रेण विनास्य वैरिभिः । विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवार्णवः ॥
Metre: वंशस्थम्

Verse 72
यदस्य भूलोकभुजो भुजोष्मभिस्तपर्तुरेव क्रियतेऽरिवेश्मनि । प्रपां न तत्रारिवधूस्तपस्विनी ददातु नेत्रोत्पलवासिभिर्जलैः ॥
Metre: वंशस्थम्

Verse 73
एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय । एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥
Metre: स्रग्धरा

Verse 74
क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरैर्निर्मिते स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् । केषां नाजनि वा जनेन जगतामेतत्कवित्वामृतस्रोतःप्रोतपिपासुकर्णकलसीभाजाभिषेकोत्सवः ॥
Metre: शार्दूलविक्रीडितम्

Verse 75
सभिति पतिनिपाताकर्णनद्रागदीर्णप्रतिनृपतिमृगाक्षीलक्षवक्षःशिलासु । रचितलिपिरिवोरस्ताडनव्यस्तहस्तप्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः ॥
Metre: मालिनी

Verse 76
विधाय ताम्बूलपुटीं कराङ्कगां बभाण ताम्बूलकरङ्कवाहिनी । दमस्वसुर्भावमवेत्य भारतीं नयानया वक्त्रपरिश्रमं शमम् ॥
Metre: वंशस्थम्

Verse 77
समुन्मुखीकृत्य बभार भारती रतीशकल्पेऽन्यनृपे निजं भुजम् । ततस्त्रसद्बालपृषद्विलोचनां शशंस संसज्जनरञ्जनीं जनीम् ॥
Metre: वंशस्थम्

Verse 78
अयं गुणौघैरनुरज्यदुत्कलो भवन्मुखालोकरसोत्कलोचनः । स्पृशन्तु रूपामृतवापि नन्वमुं तवापिदृक्तारतरङ्गभङ्गयः ॥
Metre: वंशस्थम्

Verse 79
अनेन सर्वार्थिकृतार्थताकृताहृतार्थिनौ कामगवीसुरद्रुमौ । मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्नुतः ॥
Metre: वंशस्थम्

Verse 80
नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान्पततः पदद्वये । तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरञ्जना ॥
Metre: वंशस्थम्

Showing 71 to 80 of 113 verses