नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 91 to 100 of 113 verses
Verse 91
भूशक्रस्य यशांसि विक्रमभरेणोपाऋजितानि क्रमादेतस्य स्तुमहे महेमरदनस्पर्धीनि कैरक्षरैः । लिम्पद्भिः कृतकं कृतोऽपि रजतं राज्ञां यशःपारदैरस्य स्वर्णगिरिः प्रतापदहनैः स्वर्णं पुनर्निर्मितः ॥
Metre: शार्दूलविक्रीडितम्

Verse 92
यद्भर्तुः कुरुतेऽभिषेणनमयं शक्रो भुवः सा ध्रुवं दैग्दाहैरिव भस्मभिर्मघवता वृष्टैर्धृतोद्धूलना । शंभोर्मा बत सांधिवेलनटनं भाजि व्रतं द्रागिति क्षोणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसंध्याधिया ॥
Metre: शार्दूलविक्रीडितम्

Verse 93
प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समस्तस्त्विषां कोशः शोषमगादगाधजगतीशिल्पेऽप्यनल्पायितः । निश्शेषद्युतिमण्डलव्ययवशादीषलभैरेष वा शेषः केशमयः किमन्धतमसस्तोभैस्ततो निर्मितः ॥
Metre: शार्दूलविक्रीडितम्

Verse 94
तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुराग्रोद्धतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः । भूगोलच्छायमायामयगणितविदुन्नेयकायोऽभियाभूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥
Metre: स्रग्धरा

Verse 95
आस्ते दामदोरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि । तामेनां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्मच्छद्मापन्नानितानिद्विपदशनसनाभीनि नाभीपथेन ॥
Metre: स्रग्धरा

Verse 96
अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् । सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धाषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥
Metre: शार्दूलविक्रीडितम्

Verse 97
यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रतामस्मिन्नेव बिभर्ति यञ्च किरति कूरध्वनिं निष्ठुरः । दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 98
अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः । तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 99
धूलीभिर्दिवमन्धयन्बधिरयन्नाशाः खुराणां रवैर्वातं संयति खञ्जयञ्जवजवैस्तोत्ṝन्गुणैर्मूकयन् । धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरंगोऽपि गाम् ॥
Metre: शार्दूलविक्रीडितम्

Verse 100
एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि । अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमानक्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुरारेणुधारान्धकारात् ॥
Metre: स्रग्धरा