नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 91 to 100 of 130 verses
Verse 91
निःशङ्कमङ्कुरिततां रतिवल्लभस्य देवः स्वचन्द्रकिरणामृतसेचनेन । तत्रावलोक्य सुदृशां हृदयेषु रुद्रः तद्देहदाहफलमाह स किं न विद्मः ॥
Metre: वसन्ततिलका

Verse 92
आगश्शतं विदधतोऽपि समिद्धकामा नाधीयते परुषामक्षरमस्य वामाः । चान्द्री न तत्र हरमौलिशयालुरेकानध्यायहेतुतिथिकेतुरपैति लेखा ॥
Metre: वसन्ततिलका

Verse 93
भूपं व्यलोकत न दूरतरानुरक्तं सा कुण्डिनावनिपुरंदरनन्दिनी तम् । अन्यानुरागविरसेन विलोकनाद्वा जानामि सम्यगविलोकनमेव रम्यम् ॥
Metre: वसन्ततिलका

Verse 94
भैमीङ्गितानि शिबिकामधरे वहन्तः साक्षान्न यद्यपि कथंचन जानते स्म । जज्ञुस्तथापि सविधस्थितसंमुखीनभूपालभूषणमणिप्रतिविम्बितेन ॥
Metre: वसन्ततिलका

Verse 95
भैमीमवापयत जन्यजनस्तदन्यं गङ्गामिव क्षितितलं रधुवंशदीपः । गाङ्गेयपीतकुचकुम्भयुगां च हारचूडासमागमवशेन विभूषितां च ॥
Metre: वसन्ततिलका

Verse 96
तां मत्स्यलाञ्छनदराञ्छितचापभासा नीराजितभ्रुवमभाषत भाषितेशा । व्रीडाजडे किमपि सूचय चेतसा चेत्क्रीडारसं वहसि गौडविडौजसीह ॥
Metre: वसन्ततिलका

Verse 97
एतद्यशोभिरमलानि कुलानि भासां तथ्यं तुषारकिरणस्य तृणीकृतानि । स्थाने ततो वसति तत्र सुधाम्बुसिन्धौ रङ्कुस्तदङ्कुरवनीकवलाभिलाषात् ॥
Metre: वसन्ततिलका

Verse 98
आलिङ्गितः कमलवत्करकस्त्वयाऽयं श्यामः सुमेरुशिस्वयेव नवः पयोदः । कन्दर्पमूर्धरुहमण्डनचम्पकस्रग्दामत्वदङ्गरुचिकञ्चुकितश्चकास्तु ॥
Metre: वसन्ततिलका

Verse 99
एतेन संमुखमिलत्करिकुम्भमुक्ताः कौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः । एतद्भुजोष्मभृशनिःसहया विकीर्णाः प्रस्वेदबिन्दव इवारिनरेन्द्रलक्ष्म्या ॥
Metre: वसन्ततिलका

Verse 100
आश्चर्यमस्य ककुभामवधीनवापदाजानुगाद्भुजयुगादुदितः प्रतापः । व्यापत्सदाशयविसारितसप्ततन्तुजन्मा चतुर्दश जगन्ति यशःपटश्च ॥
Metre: वसन्ततिलका