ते तां ततोऽपि चकृषुर्जगदेकदीपादंसस्थलस्थितसमानविमानदण्डाः । चण्डद्युतेरुदयिनीमिव चन्द्रलेखां सोत्कण्ठकैरववनीसुकृतप्ररोहाः ॥
Metre: वसन्ततिलका
भूपेषु तेषु न मनागपि दत्तचित्ता विस्मेरया वचनदेवतया तयाथ । वाणीगुणोदयतृणीकृतपाणिवीणानिक्वाणया पुनरभाणि मृगेक्षणा सा ॥
Metre: वसन्ततिलका
यन्मौलिरत्नमुदितासि स एष जम्बूद्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति । दोलायितेन बहुना भवभीतिकम्प्रः कंदर्पलोक इव खात्पतितस्त्रुटित्वा ॥
Metre: वसन्ततिलका
विष्वग्वृतः परिजनैरयमन्तरीपैः तेषामधीश इव राजति राजपुत्रि । हेमाद्रिणा कनकदण्डमहातपत्रः कैलासरश्मिचयचामरचक्रचिह्नः ॥
Metre: वसन्ततिलका
एतत्तरुस्तरुणि राजति राजजम्बूः स्थूलोपलानिव फलानि विमृश्य यस्याः । सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्तियूथानि केन तरुमारुरुहुः पथेति ॥
Metre: वसन्ततिलका
जाम्बूनदं जगति विश्रुतिमेति मृत्स्ना कृत्स्नापि सा तव रुचा विजितश्रि । यस्याः तज्जाम्बवद्रवभवास्य सुधाविधाम्बुः जम्बूसरिद्वहति सीमनि कम्बुकण्ठि ॥
Metre: वसन्ततिलका
अस्मिञ्जयन्ति जगतीपतयः सहस्रम् अस्रास्रुसार्द्ररिपुतद्वनितेषु तेषु । रम्भोरु चारु कतिचित्तव चित्तबिन्धिरूपान्निरूपय मुदाहमुदाहरामि ॥
Metre: वसन्ततिलका
प्रत्यर्थियौवतवतंसतमालमालोन्मीलत्तमः प्रकरतस्करशौर्यसूर्ये । अस्मिन्नवन्तिनृपतौ गुणसंततीनां विश्रान्तिधामनि मनो दमयन्ति किं ते ॥
Metre: वसन्ततिलका
तत्रानुतीरवनवासितपस्विविप्रा शिप्रा तवोर्मिभुजया जलकेलिकाले । आलिङ्गनानि ददती भवता वयस्या हास्यानुबन्धिरमणीयसरोरुहास्या ॥
Metre: वसन्ततिलका
अस्याधिशय्य पुरमुज्जयिनीं भवानी जागर्ति या सुभगयौवतमौलिमाला । पत्याऽर्धकायघटनाय मृगाक्षि तस्याः शिष्या भविष्यसि चिरं वरिवस्ययापि ॥
Metre: वसन्ततिलका