एतद्गुणश्रवणकालविजृम्भमाणतल्लोचनाञ्चलनिकोचनसूचितस्य । भावस्य चक्ररुचितं शिबिकाभृतस्ते तामेकतः क्षितिपतेरपरं नयन्तः ॥
Metre: वसन्ततिलका
तां भारती पुनरभाषत नन्वमुष्मिन्काश्मीरपङ्कनिभलग्नजनानुरागे । श्रीखण्डलेपमयदिग्जयकीर्तिराजिराजद्भुजे भज महीभुजि भैमि भावम् ॥
Metre: वसन्ततिलका
द्वीपं द्विपाधिपति मन्दपदे प्रशास्ति प्लक्षोपलक्षितमयं क्षितिपस्तदस्य । मेधातिथेस्त्वमुरसि स्फुर सृष्टसौख्या साक्षाद्यथैव कमला यमलार्जुनारेः ॥
Metre: वसन्ततिलका
प्लक्षे महीयसि महीवलयातपत्रे तत्रेक्षिते खलु तवापि मतिर्भवित्री । खेलां विधातुमधिशाखविलम्बिदोलालोलाखिलाङ्गजनताजनितानुरागे ॥
Metre: वसन्ततिलका
पीत्वा तवाधरसुधां वसुधासुधांशुः न श्रद्दधातु रसमिक्षुरसोदवाराम् । द्वीपस्य तस्य दधतां परिवेषवेषं सोऽयं चमत्कृतचकोरचलाचलाक्षि ॥
Metre: वसन्ततिलका
सूरं न सौर इव नेन्दुमवीक्ष्य तस्मिन्नाश्नाति यस्तदितरत्रिदशानभिज्ञः । तस्यैन्दवस्य भवदास्यनिरीक्षयैव दर्शे श्नतोऽपि न भवत्यवकीर्णिभावः ॥
Metre: वसन्ततिलका
उत्सर्पिणी न किल तस्य तरिङ्गिणी या त्वन्नेत्रयोरहह तत्र विपाशि जाता । नीराजनाय नवनीरजराजिरास्ताम् अत्राञ्जसानुरज राजनि राजमाने ॥
Metre: वसन्ततिलका
एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसा दुग्धीकृते तदुभयव्यतिभेदमुग्धाः । क्षीरे पयस्यपि पदे द्वयवाचिभूयं नानार्थकोषविषयोऽद्य मृषोद्यमस्तु ॥
Metre: वसन्ततिलका
ब्रूमः किमस्य नलमप्यलमाजुहूषोः कीर्तिं स चैष च समादिशतः स्म कर्तुम् । स्वद्वीपसीमसरिदीश्वरपूरपारवेलाचलाक्रमणविक्रममक्रमेण ॥
Metre: वसन्ततिलका
अम्भोजगर्भरुचिराथ विदर्भसुभ्रूः तं गर्भरूपमपि रूपजितत्रिलोकम् । वैराग्यरूक्षमवलोकयति स्म भूपं दृष्टिः पुरत्रयरिपोरिव पुष्पचापम् ॥
Metre: वसन्ततिलका