नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 71 to 80 of 138 verses
Verse 71
कुलं च शीलं च बलं च यूनां जानासि नानाभुवनागतानाम् । एषामतस्त्वं भव वावदूका मूकायितुं कः समयस्तवायम् ॥
Metre: उपजातिः

Verse 72
जगत्त्रयीपण्डितमण्डितैषा सभा न भूता च न भाविनी च । राज्ञां गुणज्ञापनकैतवेन संख्यावतः श्रावय वाङ्मुखानि ॥
Metre: उपजातिः

Verse 73
इतीरिता तच्चरणात्परागं गीर्वाणचूडामणिमृष्टशेषम् । तस्य प्रसादेन सहाज्ञयासावादाय मूर्ध्नादरिणी बभार ॥
Metre: उपजातिः

Verse 74
मध्येसभं सावततार बाला गन्धर्वविद्याधरकण्ठनाला । त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वर्तितदृक्तरङ्गा ॥
Metre: उपजातिः

Verse 75
आसीदथर्वा त्रिवलित्रिवेदी मूलाद्विनिर्गत्य वितायमाना । नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोदररोमरेखा ॥
Metre: उपजातिः

Verse 76
शिक्षैव साक्षाच्चरितं यदीयं कल्पश्रियाकल्पविधिर्यदीयः । यस्याः समस्तार्थनिरुक्तिरूपैर्निरुक्तिविद्या खलु पर्यणंसीत् ॥
Metre: उपजातिः

Verse 77
जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वमभूद्यदीयम् । श्लोकार्धविश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्नमध्यम् ॥
Metre: इन्द्रवज्रा

Verse 78
असंशयं सा गुणदीर्घभावकृता दधाना विततिं यदीया । विधायिका शब्दपरम्पराणां किं वारचि व्याकरणेन काञ्ची ॥
Metre: उपजातिः

Verse 79
स्थितैव कण्ठे परिणम्य हारलता बभूवोदिततारवृत्ता । ज्योतिर्मयी यद्भजनाय विद्या मध्येङ्गमङ्केन भृता विशङ्के ॥
Metre: उपजातिः

Verse 80
अवैमि वादिप्रतिवादिगाढखपक्षरागेण विराजमाने । ते पूर्वपक्षोत्तरपक्षशास्त्रे रदच्छदौ भूतवती यदीयौ ॥
Metre: उपजातिः

Showing 71 to 80 of 138 verses