नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 81 to 90 of 113 verses
Verse 81
यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बते जातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना । एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती धिक्तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥
Metre: शार्दूलविक्रीडितम्

Verse 82
अमुष्योर्वीभर्तुः प्रसृमरचमूसिन्धुरभवैरवैमि प्रारब्धे वमथुभिरवश्यायसमये । न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः ॥
Metre: शिखरिणी

Verse 83
आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती यद्गाट्रान्तरवर्जनादजनयद्भूजानिरेष द्विषाम् । भूयोऽहं क्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि दलंदलं समिदलंकर्मीणबाणव्रजः ॥
Metre: शार्दूलविक्रीडितम्

Verse 84
दूरं गौरगुणैरहंकृतिभृतां जैत्राङ्ककारे चरत्येतद्दोर्यशसि प्रयाति कुमुदं बिभ्यन्न निद्रां निशि । धम्मिल्ले तव मल्लिकासुमनसां माल्यं भिया लीयते पीयूषस्रवकैतवाद्धृतदरः शीतद्युतिः स्विद्यति ॥
Metre: शार्दूलविक्रीडितम्

Verse 85
एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः । दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमिव्याजादभ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः ॥
Metre: शार्दूलविक्रीडितम्

Verse 86
अथैतदुर्वीपतिवर्णनाद्भुतं न्यमीलदास्वादयितुं हृदीव सा । मधुस्रजा नैषधनामजापिनी स्फुटीभवद्ध्यानपुरःस्फुरन्नला ॥
Metre: वंशस्थम्

Verse 87
प्रशंसितुं संसदुपान्तरञ्जिनं श्रिया जयन्तं जगतीश्वरं जिनम् । गिरः प्रतस्तार पुरावदेव ता दिनान्तसंध्यासमयस्य देवता ॥
Metre: वंशस्थम्

Verse 88
तथाधिकुर्या रुचिरे चिरेप्सिता यथोत्सुकः सम्प्रति संप्रतीच्छति । अपाङ्गरङ्गस्थललास्यलम्पटाः कटाक्षधारास्त्व कीकटाधिपः ॥
Metre: वंशस्थम्

Verse 89
इदंयशांसि द्विषतः सुधारुचः किमङ्कमेतद्द्विषातः किमाननम् । यशोभिरस्याखिललोकधाविभिर्विभीषिता धावति तामसी मसी ॥
Metre: वंशस्थम्

Verse 90
इदंनृपप्रार्थिभिरुज्झितोऽर्थिभिर्मणिप्ररोहेण विवृध्य रोहणः । कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥
Metre: वंशस्थम्