उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूरक्रोडक्रीडद्द्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः । एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमालीव्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥
Metre: स्रग्धरा
वृद्धो वार्धिरसौ तरङ्गवलिभं बिभ्रद्वपुः पाण्डुरं हंसालीपलितेन यष्टिकलितस्तावद्वयोर्बंहिमा । बिभ्रच्चन्द्रिकया च कं विकचया योग्यस्फुरत्संगतं स्थाने स्नानविधायिधार्मिकशिरोनत्यापि नित्यादृतः ॥
Metre: शार्दूलविक्रीडितम्
तस्मिन्नेतेन यूना सह विहर पयःकेलिवेलासु बाले नालेनास्तु त्वदक्षिप्रतिफलनभिदा तत्र नीलोत्पलानाम् । तत्पाथोदेवतानां विशतु तव तनुच्छायमेवाधिकारे तत्फुल्लाम्भोजराज्ये भवतु च भवदीयाननस्याभिषेकः ॥
Metre: स्रग्धरा
एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितैर्विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि । जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनः सायन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥
Metre: शार्दूलविक्रीडितम्
अथावदद्भीमसुतेङ्गितात्सखी जनैरकीर्तिर्यदि वास्य नेष्यते । मयापि सा तत्खलु नेष्यते परं सभाश्रवःपूरतमालवल्लिताम् ॥
Metre: वंशस्थम्
अस्य क्षोणिपतेः पराऋधपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि ॥
Metre: शार्दूलविक्रीडितम्
तदक्षरैः सस्मितविस्मिताननां निपीय तामीक्षणभङ्गिभिः सभाम् । इहास्य हास्यं किमभून्नवेति तं विदर्भजा भूपमपि न्यभालयत् ॥
Metre: वंशस्थम्
नलान्यवीक्षां विदधे दमस्वसुः कनीनिकागः खलु नीलिमालयः । चकार सेवां शुचिरक्ततोचितां मिलन्नपाङ्गः सविधे तु नैषधे ॥
Metre: वंशस्थम्
दृशा नलस्य श्रुतिचुम्बिनेषुणा करेऽपि चक्रच्छलनम्रकार्मुकः । स्मरः पराङ्गैरनुकल्प्य धन्वितां जनीमनङ्गः स्वयमार्दयत्ततः ॥
Metre: वंशस्थम्
उत्कण्टका विलसदुज्ज्वलपत्रराजिरामोदभागनपरागतराऽतिगौरी । रुद्रक्रुधस्तदरिकामधिया नले सा वासार्थितामधृत काञ्चनकेतकीव ॥
Metre: वसन्ततिलका