औदास्यसंविदवलम्बितशून्यमुद्रामस्मिन्दृशोर्निपतितामवगम्य भैम्याः । स्वेनैव जन्यजनतान्यमजीगमत्तां सुज्ञं प्रतीङ्गितविभावनमेव वाचः ॥
Metre: वसन्ततिलका
एतां कुमारनिपुणां पुनरप्यभाणीद्वाणी सरोजमुखि निर्भरमारभस्व । अस्मिन्नसंकुचितपङ्कजसख्यशिक्षानिष्णातदृष्टिपरिरम्भविजृम्भितानि ॥
Metre: वसन्ततिलका
प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थपृथ्वीधरः पृथुरयं मथुराधिनाथः । अश्मश्रुजातमनुयाति न शर्वरीशः श्यामाङ्ककर्बुरवपुर्वदनाब्जमस्य ॥
Metre: वसन्ततिलका
बालेऽधराधरितनैकविधप्रवाले पाणौ जगद्विजयकार्मणमस्य पश्य । ज्याघातजेन रिपुराजकधूमकेतुतारायमाणमुपरज्य मणिं किणेन ॥
Metre: वसन्ततिलका
एतद्भुजारणिसमुद्भवविक्रमाग्निचिह्नं धनुर्गुणकिणः खलु धूमलेखा । जातं ययारिपरिषन्मशकार्थयाश्रुविश्राणनाय रिपुदारदृगम्बुजेभ्यः ॥
Metre: वसन्ततिलका
श्यामीकृता मृगमदैरिव माथुरीणां धौतैः कलिन्दतनयामधिमध्यदेशम् । तत्राप्तकालियमहाह्रदनाभिशोभां रोमावलीमिव विलोकयितासि भूमेः ॥
Metre: वसन्ततिलका
गोवर्धनाचलकलापिचयप्रचारनिर्वासिताहिनि घने सुरभिप्रसूनैः । तस्मिन्ननेन सह निर्विश निर्विशङ्कं वृन्दावने वनविहारकुतूहलानि ॥
Metre: वसन्ततिलका
भावी करः कररुहाङ्कुरकोरकोऽपि तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः । अन्तस्त्वदास्यहृतसारतुषारभानुशोकानुकारिकरिदन्तजकङ्कणाङ्कः ॥
Metre: वसन्ततिलका
तज्जः श्रमाम्बु सुरतान्तमुदा नितान्तमुत्कण्टके स्तनतटे तव संचरिष्णुः । खञ्जन्प्रभञ्जनजनः पथिकः पिपासुः पाता कुरङ्गमदपङ्किलमप्यशङ्कम् ॥
Metre: वसन्ततिलका
पूजाविधौ मखभुजामुपयोगिनो ये विद्वत्कराः कमलनिर्मलकान्तिभाजः । लक्ष्मीमनेन दधतेऽनुदिनं वितीर्णैः ते हाटकैः स्फुटवराटकगौरगर्भाः ॥
Metre: वसन्ततिलका