नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 111 to 120 of 130 verses
Verse 111
वैरिश्रियं प्रतिनियुद्धमनाप्नुवन्यः किंचिन्न तृप्यति धरावलयैकवीरः । स त्वामवाप्य निपतन्मदनेषुवृन्दस्यन्दीति तृप्यतु मधूनि पिबन्निवायम् ॥
Metre: वसन्ततिलका

Verse 112
तस्मादियं क्षितिपतिक्रमगम्यमानमध्वानमैक्षत नृपादवतारिताक्षी । तद्भावबोधबुधतां निजचेष्टयैव व्याचक्षते स्म शिबिकानयने नियुक्ताः ॥
Metre: वसन्ततिलका

Verse 113
भूयोऽपि भूपमपरं प्रति भारती तां त्रस्यच्चमूरुचलचक्षुषमाचचक्षे । एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मीमक्ष्णोः सुखं जनय खञ्जनमञ्जुनेत्रे ॥
Metre: वसन्ततिलका

Verse 114
एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः । यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरजं विरजीभवन्ति ॥
Metre: वसन्ततिलका

Verse 115
आलोक्य भाविविधिकर्तृकलोकसृष्टिकष्टानि रोदिति पुरा कृपयैव रुद्रः । नामेच्छयेति मिषमात्रमधत्त यत्तां संसारतारणतरीमसृजत्पुरीं सः ॥
Metre: वसन्ततिलका

Verse 116
वाराणसी निविशते न वसुंधरायां तत्र स्थितिर्मखभुजां भुवने निवासः । तत्तीर्थमुक्तवपुषामत एव मुक्तिः स्वर्गात्परं पदमुदेतु मुदे तु कीदृक् ॥
Metre: वसन्ततिलका

Verse 117
सायुज्यमृच्छति भवस्य भवाब्धियादस्तां पत्युरेत्य नगरीं नगराजपुत्र्याः । भूताभिधानपटुमद्यतनीमवाप्य भीमोद्भवे भवतिभावमिवास्तिधातुः ॥
Metre: वसन्ततिलका

Verse 118
निर्विश्य निर्विरति काशिनिवासि भोगान्निर्माय नर्म च मिथो मिथुनं यथेच्छम् । गौरीगिरीशघटनाधिकमेकभावं शर्मोर्मिकञ्चुकितमञ्चति पञ्चतायाम् ॥
Metre: वसन्ततिलका

Verse 119
न श्रद्दधासि यदि तन्मम मौनमस्तु कथ्या निजाप्ततमयैव तवानुभूत्या । न स्यात्कनीयसितरा यदि नाम काश्या राजन्वती मुदिरमण्डनधन्वना भूः ॥
Metre: वसन्ततिलका

Verse 120
ज्ञानाधिकासि सुकृतान्यधिकाशि कुर्याः कार्यं किमन्यकथनैरपि यत्र मृत्योः । एकं जनाय सतताभयदानमन्यद्धन्ये वहत्यमृतसत्त्रमवारितार्थि ॥
Metre: वसन्ततिलका

Showing 111 to 120 of 130 verses